________________
३२८
अनगारधर्मामृते
ज्ञेयज्ञातृतथाप्रतीत्यनुभवाकारैकदृग्बोधभाग, द्रष्टृज्ञातृनिजात्मवृत्तिवपुषं निष्पीय चर्यासुधाम् । पक्तुं विभ्रदनाकुलं तदनुबन्धायैव कंचिद्विधि, कृत्त्वाप्यामृति यः पिबत्यधिकशस्तामेव देवः स वै ॥ १७७ ॥
I
ज्ञेयेत्यादि । ज्ञेयैर्बोध्यैर्हेयोपादेयतत्त्वैरुपलक्षितो ज्ञाता शुद्धचिद्रूप आत्मा ज्ञेयज्ञाता । अथवा ज्ञेयं च ज्ञाता च ज्ञेयज्ञातारौ । तत्र तथा यथोपदिष्टत्वेन प्रतीतिः प्रतिपत्तिरनुभवश्चानुभूतिज्ञेय ज्ञातृतथा — प्रतीत्यनुभवौ । ज्ञेयैरुपलक्षिते ज्ञातरि ज्ञेयज्ञात्रोर्वा तथा प्रतीति तथानुभूतीत्यर्थः । ज्ञेयज्ञातृतथाप्रतीत्यनुभवावाकारौ स्वरूपे ययोस्तौ तथोक्तौ । दृक् च बोधश्च ग्बोधौ । एकौ मुख्यौ हग्बोधौ तात्त्विकसमयक्त्वज्ञाने । ज्ञेयज्ञातृतथाप्रतीत्यनुभवाकारौ च तावेकदृग्बोधौ च तौ ज्ञेयज्ञातृतथाप्रतीत्यनुभवाकारैकम्बोधौ । तौ भजति सेवते कथंचित्तादात्म्येनानुभवति यः स तथोक्तः । द्रष्ट्रित्यादि । द्रष्टा ज्ञेयज्ञातृतथाप्रतीत्यात्मक तात्त्विक सम्यक्त्व परिणतः । ज्ञाताज्ञेयज्ञातृतथानु भूल्यात्मक ज्ञान परिणतः । निजश्चासावात्मा निजात्मा स्वात्मा । द्रष्टा चासौ ज्ञाता च द्रष्टृज्ञाता । स चासौ निजात्मा च द्रष्टृज्ञातृनिजात्मा । तत्र वृत्तिरुत्पादव्ययधौव्यैकलक्षणमस्तित्वं द्रष्टृज्ञातृनिजात्मवृत्तिः । सैव वपुः स्वभावो यस्याः सा द्रष्टृज्ञातृनिजात्मवृत्तित्रपुस्ताम् । उक्तं च
जीवसहावं गाणं अप्पडिहददंसणं अणण्णमयं । चरियं च तेसु णियदं अस्थित्तमणिदियं भणियं ॥
निष्पीय अतिशयेन पीत्वा । तदुपयुक्तो भूत्वेत्यर्थः । चर्या चारित्रं सुधा अमृतमिवाह्लादकत्वादजरामरत्वहेतुत्वाच्च, चर्यासुधा ताम् । एतेनोद्यवनं द्योत्यते । पक्तुं परिणमयितुं बिभ्रद् धारयन् । अनाकुलं
१ जीवस्वभावं ज्ञानमप्रतिहतदर्शनमनन्यमयम् ।
चर्या च तेषु नियतमऽस्तित्वमनिन्द्रियं भणितम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org