________________
चतुर्थोऽध्यायः।
मुच्छारंभविजुत्तं जुत्तं उवजोगजोगसुद्धीहिं। लिंगं ण वरावेक्खं अपुणब्भवकारणं जोण्हं । आदाय तं चलिंगं गुरुणा परमेण तं णमंसिंता । सोच्चा सवदं किरियं उपढिदो होदि सो समणो॥ वदसमिदिदियरोधो लोचावस्सगमचेलमण्हाणं । खिदिसयणमदंतवणं ठिदिभोयणमेयभत्तं च ॥ एदे खलु मूलगुणासमणाणं जिणवरेहिं पण्णत्ता तेसु पमत्तो समणो छेदोवट्ठावगो होदि ॥ अपि न केवलं छेदोपस्थापनमेवान्वेति किन्तु कदाचित्पुनः सामायिकमधिरोहतीत्येवमर्थः बाह्ये चेष्टामात्रादिकृते द्रव्यहिंसारूपे अन्तरे उपयोगमात्रादिकृते भावहिंसारूपे कथमप्यज्ञानेन प्रमादेन वा प्रकारेण ऐतिह्यानुगुणमागमाविरोधेनेत्यर्थः । उक्तं च
व्रतानां छेदनं कृत्वा यदात्मन्यधिरोपणम् ।
शोधनं वा विलोपे तच्छेदोपस्थापनं मतम् ॥ इहास्मिन् भरतक्षेत्रे ऐदंयुगीनेषु अस्मिन्युगे साधुषु । दुष्षमाकाले सिद्धिसाधकेष्वित्यर्थः तं सामायिकादवरुह्य छेदोपस्थापनमनुवर्तमानं पुनः सामायिके वर्तमानं च । अथ पदघटना,-नौमि स्तौम्यहम् । कम् ? तम्। किंविशिष्टम् ? धुरीणं धुर्य प्रधानम् । केषु मध्ये ? ऐदंयुगीनेषु । क ? इह । यः किम् ? योन्वेति । किं तत् ? वृत्तम् । किंविशिष्टम् ? अन्यत् । किं कृत्वा ? उपस्थाप्य । कैः ? छेदैः । किंविशिष्टः ? व्रतादिभिः । कथं ? विधिवत् । किं कृत्वा ? आदाय । किं तत् ? वृत्तं । किमाख्यं ? सामायिकं । किं लक्षणं ? सर्वावद्यनिवृत्तिरूपं । क ? उपगुरु । कथं ? विधिवत् । अपि शब्दात् न केवलं छेदोपस्थापनमेव । योन्वेति कदाचित् पुनः सामायिकमपीत्यर्थः । तथा य उपस्थापयति च । किं तत् ? वृत्तं प्रकृतत्वाच्छेदोपस्थापनाख्यम् । क्व सति ? छेदे । किंविशिष्टे ? बाह्ये उत अथवा अन्तरे। कथम् ? कथमपि केनापि प्रकारेण । कथं कृत्वा ? ऐतिह्यानुगुणम् । अपिश्चार्थे ।
एवं चारित्रस्योद्योतनमभिधायेदानीं तदुद्यमनादिचतुष्टयाभिधानार्थमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org