________________
३२६
अनगारधर्मामृते
विभागत्वेन दत्तसर्वस्वमूलोत्तरपरमगुरून्नमस्क्रियया संभाव्य भावस्तववन्दनामयो भवति । ततः सर्वसावद्ययोगप्रत्याख्यानलक्षणैकमहाव्रतश्रवणात्मना श्रुतज्ञानेन समये भवन्तमात्मानं जानन्सामायिकमधिरोहति । ततः प्रतिक्रमणालोचनप्रत्याख्यानलक्षणक्रियाश्रवणात्सना श्रुतज्ञानेन त्रैकालिककर्मभ्यो विविच्यमानमात्मानं जानन्नतीतप्रत्युत्पन्नानुपस्थितकायवाङ्मनःकर्मचि विक्तत्वमधिरोहति । ततः समस्तावद्यकर्मायतनं कायमुत्सृज्य यथाजातरूपं स्वरूपमेकमैकामयेणालम्ब्यावतिष्ठमान उपस्थितो भवति । उपस्थितस्तु सर्वत्र समदृष्टत्वात्साक्षाच्छ्रमणो भवति ।
छेदैनिर्विकल्पसामायिकसंयमविकल्पैर्वतादिभिः पञ्चभिर्महाव्रतैस्तपरिकरभूतैस्तैश्च त्रयोविंशत्या समित्यादिभिर्मूलगुणैरुपस्थाप्य निर्विकल्प. सामायिकसंयमादि-रूढत्वेनानभ्यस्तविकल्पत्वात्तेषु प्रमाद्यन्तमात्मानमारोप्य अन्यच्छेदोपस्थापनाख्यं वृत्तं चारित्रमन्वेति सामायिकादव. तीर्णोनुवर्तते । केवलकल्याणमात्रार्थिनः कुण्डलवलयाङ्गुलीयादिपरिग्रहः किल श्रेयान्; न पुनः सर्वथा कल्याणाभाव एवेति संप्रधार्य विकल्पेनात्मानमुपस्थापयंश्छेदोपस्थापको भवतीत्यर्थः । तथा चोक्तं प्रवचनसारचूलिकायाम् ।
जहजादरूवजादं उप्पाडिदकेसमंसुगं मुद्धं । रहिदं हिंसादीदो अप्पडिकम्मं हवदि लिङ्गं ॥
१ यथाजातरूपजातमुत्पाटितकेशश्मश्रुकं शुद्धम् ।
रहितं हिंसादितः अप्रतिकर्म भवति लिङ्गम् ॥ मूर्छारम्भवियुक्तं युक्तमुपयोगयोगशुद्धिभिः । लिङ्गं न परापेक्षमऽपुनर्भवकारणं जैनम् ॥ आदाय तच्च लिङ्गं गुरुणा परमेण तन्नमस्कृत्य । श्रुत्वा सव्रतं क्रियामुपस्थितो भवति स श्रमणः ॥ व्रत समितीन्द्रियरोधो लोचावश्यकमचेलमस्नानम् । क्षितिशयनमदन्तधावनं स्थितिभोजनमेकभक्तं च ।। एते खलु मूलगुणाः श्रमणानां जिनवरैः प्रज्ञप्ताः । तेषु प्रमत्तः श्रमणः छेदोपस्थापको भवति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org