________________
चतुर्थोऽध्यायः।
चारित्रविनयं निर्दिशंस्तत्र प्रेरयतिसदसत्खार्थकोपादिप्रणिधानं त्यजन् यतिः । भजन्समितिगुप्तीश्व चारित्रविनयं चरेत् ।। १७५ ॥
यतिश्चरेत् साधयेत् । कम् ? चारित्रविनयम् व्रतान्येवात्र चारित्रम् । चारित्रविनयो निर्मलीकरणयत्नः । किं कुर्वन् ? त्यजन् वर्जयन् । किं तत् ? सदित्यादि । खाना स्पर्शनादीन्द्रियाणामा विषयाः स्पर्शादयः खार्थाः । सन्तः प्रशस्ता इष्टाः । असन्तोऽप्रशस्ता अनिष्टाः सन्तश्वासन्तश्च सदसन्तः । ते च ते खार्थाश्च सदसत्वार्थाः । कोप आदिर्येषां सानादिकषायहास्यादिनोकपायाणां ते कोपादयः । सदसरखार्थाश्च कोपादयश्च सदसत्खार्थकोपादयः । तेषु प्रणिधानमिष्टानिष्टविषयेषु रागद्वेषविधानं क्रोधादिषु च परिणमनमि. त्यर्थः । न केवलं, भजंश्च सेवमानः । काः ? समितिगुप्तीः।
ऐदंयुगीनधुर्यस्य श्रामण्यप्रतिपत्तिनियमानुवादपुरःसरं भावस्तवमाहसर्वावधनिवृत्तिरूपमुपगुर्वादाय सामायिकं, यश्छेदैर्विधिवद्वतादिभिरुपस्थाप्याऽन्यदन्वेत्यपि । वृत्तं बाह्य उतान्तरे कथमपि छेदेप्युपस्थापय,त्यैतिह्यानुगुणं धुरीणमिह नौम्यैदंयुगीनेषु तम् ॥ १७६ ॥
सर्वावद्यनिवृत्तिरूपं सर्वसावद्ययोगप्रत्याख्यानलक्षणमुपगुरु दीक्ष. काचार्यसमीपे आदाय सर्वसावद्ययोगप्रत्याख्यानलक्षणमेकं महाव्रतमधिरूढोस्मीति प्रतिपद्य सामायिकं समये एकत्वगमने भवम् । तदुक्तम्
क्रियते यदभेदेन व्रतानामधिरोहणम् ।
कषायस्थूलतालीढः स सामायिकसंयमः॥ विधिवदित्यत्रापि योज्यम् । विधिवदादायेत्यर्थः । विधिर्यथा, श्रमणो भवितुमिच्छन् प्रथमं तावद्यथाजातरूपधरत्वस्य गमकं बहिरङ्गमन्तरङ्गं च लिङ्गं प्रथममेव गुरुणा परमेणाहजहारकेन तदात्वे च दीक्षकाचार्येण तदादानविधानप्रतिपादकत्वेन व्यवहारतो दीयमानत्वाद्दत्तमादानक्रियया संभाव्य तन्मयो भवति । ततो भाज्यभावकभावप्रवृत्तेतरेतरसंवलनप्रत्यस्तमितस्वपर
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org