________________
३२४
अनगारधर्मामृते
व्रतदण्डकषायाक्षसमितीनां यथाक्रमम् ।
संयमो धारणं त्यागो निग्रहो विजयोऽवनम् ॥ ब्रीहीणां शाल्यादिधान्यानां ब्रातः संघातो व्रीहिब्रातः । संयमो व्रीहि. बात इव; चित्क्षेत्रप्रभवत्वादिसाधात् । किंविशिष्टम् ? चित्क्षेत्रप्रभवम् । स्वार्थों चेतत्यचेतच्चेतिष्यतीति चित् स्वपरज्ञप्तिरूप आत्मा चित् क्षेत्रमिव व्रीहिवातस्येव संयमस्य प्ररोहणादिकरणत्वात् । चित्क्षेत्रे प्रभवो जन्म यस्य स एवम् । पुनः किंविशिष्टम् ? फलर्द्धिसुभगम् सद्वृत्ताराधनस्य फलभूता ऋद्धयः फलद्धयः सप्त बुद्ध्यतिशयादिलब्धयः । यदाहुः
बुद्धितओविय लद्धी विउवणलद्धी तहेव ओसहिया। रसबलअक्खीणा वि य रिद्धीओ सत्त पण्णत्ता॥ पक्षे सस्यसंपदः । फलर्द्धिभिः सुभगः प्रीतिकरः । एतेनातिक्रमो गम्यते । यदाह
क्षतिं मनःशुद्धिविधेरतिक्रम, व्यतिक्रमं शीलवृतेविलवनम् । प्रभोतिचारं विषयेषु वर्तनं,
वदन्त्यनाचारमिहातिसक्तताम् ॥ नो चेञ्चेतोगवो यदि न दम्येत तदा न परं न केवलं विमोक्ष्यति विमुक्तं करिष्यति । वियोजयिष्यतीत्यर्थः । कोसौ ? अयं चेतोगवः । कम्? एनं संयमव्रीहिबातम् । कैः ? फलैर्मुख्यानुषङ्गिकैः स्वसाध्यैः सस्यैश्च । किं कुर्वन् ? चरन्नुपभुनानः । किम् ? यथेष्टं यो य इष्टो विषयस्तं तम् । किं कृत्वा ? विलय उल्लङ्घयित्वा । काम् ? शीलवृति, वृतिर्वाटीव ब्रीहिबातस्येव संयमस्य रक्षाहेतुत्वात् । कथम् क्षिप्रं शीघ्रम् । पुनः किंकुर्वन् ? धुन्वन विध्वंसयन् । कम् ? एनम् । किं तर्हि ? भक्ष्यति च मर्दयिष्यत्ययं चेतोगवः । कम्। तं संयमव्रीहिवातम् । कथम् विष्वक समन्तात् । विलयेत्यनेन व्यतिक्रमो लक्ष्यते, व्यतिक्रमं शीलवृतेर्विलङ्घनमिति वचनात् । यथेष्टमित्यादिनाऽतीचारो निश्चीयते, प्रभोतिचारं विषयेषु वर्तनमिति वचनात् । विष्वगित्यादिनाऽनाचारः प्रतीयते, वदन्त्यनाचारमिहातिसक्ततामिति वचनात् ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org