________________
चतुर्थोऽध्यायः ।
शत्सहस्राभ्यधिकान्यष्टौ लक्षाणि स्युः । ते चालोचनादिप्रायश्चित्तभेदैर्दशभिस्ताडिताश्चतुरशीतिलक्षसंख्या गुणाः स्युः । तथा चोक्तम्-
इगवीसचदुरस दिया दस दस दसगा य आणुपुच्चीए । हिंसादिकमकाया विराहणा लोचणासोही ॥
गुणोच्चारणविधानं यथा
मुक्ते प्राणातिपातेन तथातिक्रमवर्जिते । पृथिव्याः पृथिवीजन्तोः पुनरारम्भसंयते ॥ निवृत्तवनितासङ्गे चाकम्प्यपरिवर्जिते । तथालोचनया शुद्धे गुण आद्यस्तथा परे ॥
द्वितीयादिगुणा यथा -- हिंसाद्येकविंशतिं संस्थाप्य तदूर्ध्वमतिक्रमादयश्चत्वारः स्थाप्याः । तदुपरि पृथिव्यादिशतम् । तदूर्ध्वं स्त्रीसंसर्गादयो दश । ततश्चोर्ध्वमाकम्पितादयो दश । ततोप्यूर्ध्वमालोचनादयो दश । ततो 'मृपावादेन निर्भुक्ते ' इत्यादिनोचारणेन वाच्ये द्वितीयो गुणः । ततश्चादत्तादाननिर्मुक्त इत्यादिना तृतीयः । एवं तावदुच्चार्य याचचतुरशीतिलक्षा गुणाः संपूर्णा उत्पन्ना भवन्तीति । इति शीलगुणप्रकरणम् ।
३२३
एवं सप्रपञ्चं सम्यक्चारित्रं व्याख्याय सांप्रतं तदुद्योतनाराधनां वृत्तत्रयेण व्याख्यातुकामस्तावदतिक्रमादिवर्जनार्थं मुमुक्षून् सज्जयतिचित्क्षेत्रप्रभवं फलार्द्धसुभगं चेतोगवः संयम, व्रीहिव्रातमिमं जिघत्सुरदमः सद्भिः समुत्सार्यताम् । नोचेच्छीलवृतिं विलंघ्य न परं क्षिप्रं यथेष्टं चरन, धुन्वन्नेनमयं विमोक्ष्यति फलैर्विष्वक् च तं भक्ष्यति ॥ १७४॥
Jain Education International
-
सद्भिश्चारित्राराधनोद्यतैः साधुभिरदमोऽदान्तश्चेतोगवो मनोबलीवर्दः समुत्सार्यतां दूरीक्रियताम् । दान्तो विधीयतां निगृह्यतामिति यावत् । किं चिकीर्षुः ? जिघत्सुर्भक्षयितुमिच्छुः । कम् ? इममनन्तरोक्तं संयमव्रीहिव्रतम् संयमो व्रतधारणादिलक्षणः । यदाह
For Private & Personal Use Only
www.jainelibrary.org