________________
अनगारधर्मामृते
नुष्ये प्राय" इति दीर्घत्वम् । कति भेदाः ? शुद्धयः कायसंयमा हिंसादिवर्जना आकम्पितादिवर्जना अतिक्रमादिवर्जना अब्रह्मवजनाश्चेत्येतच्चतुरशीतिलक्षभेदभिन्नाः । हिंसा चाकम्पितं चातिक्रमश्च ते आदयो येषां ते हिंसाकम्पितातिकमादयः । आदिशब्दः प्रत्येक संबध्यते हिंसादय आकस्पितादयोऽतिक्रमादयश्चेति । वर्जना त्यजनम् । तत्र शुद्धयः प्रायश्चित्तान्यालोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदमूलपरिहारश्रद्धानाख्यानि दश । कायसंयमाः पूर्वोक्ताः पृथिवीकायिका. दिसंयमभेदा दश ते चान्योन्यगुणिताः शतम् । हिंसेत्यादि
हिंसानृतं तथा स्तेयं मैथुनं च परिग्रहः । क्रोधादयो जुगुप्सा च भयमप्यरतीरतिः॥ मनोवाकायदुष्टत्वं मिथ्यात्वं सप्रमादकम् । पिशुनत्वं तथा ज्ञानमक्षाणां चाप्यनिग्रहः ॥ तेषां वर्जनास्त्यजनान्येकविंशतिः ।
आकम्पिय अणुमाणिय जं दिटुं बादरं च सुहुमं च । छण्णं सद्दाउलियं बहुजणमव्वत्ततस्सेवी ॥ तेषां त्यागा दश । अतिक्रमो व्यासङ्गात्संक्लेशाद्वा आगमोक्तकालादधिककाले आवश्यकादिकरणम् । व्यतिक्रमो विषयव्यासङ्गादिना हीनकाले क्रियाकरणम् । अतिचारः क्रियाकरणालसत्वम् । अनाचारो व्रतादीनामनाचरणं खण्डनं वा । तत्यागाश्चत्वारः । नास्ति ब्रह्म यासु ता अबाह्माणः शीलविराधनाः । तद्यथा
स्त्रीगोष्टी वृष्यभुक्तिश्व गन्धमाल्यादिवासनम् । शयनासनमाकल्पः षष्ठं गन्धर्ववादितम् ॥ अर्थसंग्रहदुःशीलसङ्गती राजसेवनम् ।
रात्रौ संचरणं चेति दश शीलविराधनाः ॥ तद्वर्जना दश, तत्र चतुर्भिर्गुणिता एकविंशतिश्चतुरशीतिर्गुणाः स्युः । ते च शतेनाहताश्चतुरशीतिशतानि स्युः। ते चाब्रह्मकारणत्यागैर्दशभिरभ्यस्ताश्चतुरशीतिसहस्राणि स्युः । ते चाकम्पितादित्यागैर्दशभिराहताश्चत्वारिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org