________________
चतुर्थोऽध्यायः।
शुभयोगवृत्तिभिस्तिसृभिरभ्यस्ता अशुभयोगनिवृत्तयस्तिस्त्रो नव शीलानि स्युः । तानि संज्ञाविरतिभिश्चतसृभिर्गुणितानि षट्त्रिंशत् स्युः । तानीन्द्रियरोधैः पञ्चभिस्ताडितान्यशीत्यधिकं शतं स्युः । तानि क्ष्मादियममलात्ययैर्दशभिर्हतान्यष्टादशशतानि स्युः । तान्येव पुनः क्षमादिभिर्दशभिः संगुणितान्यष्टादशसहस्राणि शीलानि स्युः । तथा चोक्तम्
योगे करणसंज्ञाक्षे धरादौ धर्म एव च । अष्टादश सहस्राणि स्युः शीलानि मिथोबधे ॥ मनोगुप्ते मुनिश्रेष्ठे मनःकरणवर्जिते । आहारसंज्ञया मुक्ते स्पर्शनेन्द्रियसंवृते ॥ सधरासंयमे क्षान्तिसनाथे शीलमादिमम् । तिष्ठत्यविचलं शुद्ध तथा शेषेष्वपि क्रमः॥ द्वितीयादीनि यथा-वाग्गुप्ते मुनिश्रेष्ठे इत्यादिनोच्चारणेन द्वितीयम् । एवं कायगुप्ते मुनिश्रेष्ठे इत्यादिना तृतीयम् । ततश्च मनोगुप्ते मुनिश्रेष्ठ वा. करणवर्जिते इत्यादिना चतुर्थम् । ततश्च वाग्गुप्ते मुनिश्रेष्टे वाक्करणवर्जिते इत्यादिना पञ्चमम् । ततश्च कायगुप्ते मुनिश्रेष्टे वाक्करणवर्जिते इत्यादिना षष्ठं शीलं ब्रूयात् ।
तिस्रो गुप्तीः पतयाकारेण व्यवस्थाप्योवं त्रीणि करणानि तथैव स्थाप्यानि ततश्चतस्रः संज्ञास्ततः पञ्चेन्द्रियाणि ततः पृथिव्यादयो दश ततश्च दश धर्माः । एवं संस्थाप्य पूर्वोक्तक्रमेण शेषाणि शीलानि वक्तव्यानि यावत्सर्वेऽक्षा अचलं स्थित्वा विशुद्धा भवन्ति तावदष्टादशशीलसहस्राण्यागच्छन्तीति । गुणानां लक्षणं सविशेषमाचक्षाणः सेव्यत्वमाह
गुणाः संयमवीकल्पाः शुद्धयः कायसंयमाः।
सेव्या हिंसाकम्पितातिकमाद्यब्रह्मवर्जनाः ॥१७३ ॥ सेव्या असकृदभ्यसनीयाः साधुना । के ? गुणाः । किंलक्षणाः ? संयमवीकल्पाः संयमस्य वीकल्पा भेदाः । वीकल्पा इत्यत्र " घग्यम.
१ वचःकरणवर्जिते इत्युक्ते पादः पूर्यत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org