________________
३२०
अनगारधर्मामृते
तिभिः संबन्धात् संयमपदं संयमस्थानमधिरुह्य आरुह्य भान्ति दीप्यन्ते । कानि ? व्रतानि । किंविशिष्टानि ? द्वयान्यपि महान्त्यणूनि च । तथा चोक्तं वर्गणाखण्डस्य बन्धनाधिकारे- . "संयमविरईणं को भेदो ससमिदि महव्वयाणुव्वयाई। संयमो समिदीहिं विणा महव्वयाणुव्वयाई विरदी ॥इति ।
तथा उद्भान्ति चोगासन्ते । काः ? गुप्तयः । कस्मात् । यद्यो. गात् समितिषु गुप्तिसद्भावस्य प्रागू व्याख्यातत्वात् । इति समितिप्रकरणम्।
इदानीं शीलस्य लक्षणं विशेषांश्चोपदिशन्नुपेयत्वमभिधत्तेशीलं व्रतपरिरक्षणमुपैतु शुभयोगवृत्तिमितरहतिम् । संज्ञाक्षविरतिरोधी क्ष्मादियममलात्ययं क्षमादींश्च ॥ १७२॥
उपैतु स्वीकरोतु साधुः । किं तत् ? शीलम् । किं रूपम् ? व्रत. परिरक्षणम् । व्रतानि परिरक्ष्यन्ते परिपाल्यन्तेनेनेत्येवंस्वरूपम् । कतिभेदम् ? शुभेत्यादिनोद्दिष्टाष्टादशसहस्रविशेषम् । तत्र शुभयोगवृत्ति पुण्यादाननिमित्तमनोवाकायव्यापारपरिणतिं सर्वकर्मक्षयार्थी वा गुप्तित्रयीम् । इतरह तिम् । अशुभयोगनिराकृतित्रयीम् । संज्ञाविरतिमाहारभयमैथुनपरिग्रहाभिलाषनिवृत्तिचतुष्टयीम् । अक्षरोधं स्पर्शनरसनघ्राणचक्षुःश्रोत्रसंवरणं पञ्चतयम् । क्ष्मादियममलात्ययम् । तद्यथा
भूमिरापोऽनलो वायुः प्रत्येकानन्तकायिकाः। द्विकत्रिकचतुःपञ्चेन्द्रिया दश धरादयः॥
तेषु यमाः प्राणव्यपरोपणोपरमा विषयभेदाद्दश । तेषां मलात्ययः प्रत्येकमतीचारनिवृत्तिः । तं दशतयम् । क्षमादीन् उत्तमक्षमामार्दवार्ज. वशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि दश । तेषामन्योन्यं गुणनेऽष्टादशशीलसहस्राणि भवन्ति । तद्यथा
• १ संयमविरत्योः को भेदः ? ससमिति महाव्रताणुव्रतानि । संयमः समितिमिविना महाव्रताणुव्रतानि विरतिः, इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org