________________
चतुर्थोऽध्यायः।
३१९
हिंसाद्यैः । किं कुर्वन् ? चरन् चेष्टमानः । क्व ? लोके जगति । किंविशिष्टे ? जीवाकुलेपि त्रसस्थावरप्राणिसंकुलेपि । पुनः किं कुर्वन् सन् ? अनतिगच्छन् अतिचारगोचरा अकुर्वन् । काः ? समितीः । कस्मात् ? स्वरूपतो यथोक्तं लक्षणमाश्रित्य । न केवलम्, आकारविशेषतोपि यथोक्तं मार्गादिविशेषणमाश्रित्य ।
समितीनां माहात्म्यमनुवर्णयंस्तासां सदा सेव्यत्वमाहपापेनान्यवधेपि पद्ममणुशोप्युद्व नो लिप्यते, यद्युक्तो यदनादृतः परवधाभावेप्यलं वध्यते । यद्योगादधिरुह्य संयमपदं भान्ति व्रतानि द्वया,न्यप्युद्भान्ति च गुप्तयः समितयस्ता नित्यमित्याः सताम्१७१ - इत्या गम्याः । सेव्या इत्यर्थः । काः ? ताः समितयः । केषाम् ? सतां साधूनाम् । किं कदाचित् ? नेत्याह-नित्यं सदा । गुप्तिकालादन्यदेत्यर्थः। यदादरानादराभ्यां किं स्यादित्याह-ययुक्तो यासु समितिषु समाहितः साधु! लिप्यते नोपश्लिष्यते। केन ? पापेन । किंविशिष्टेन ? अणुशोपि अल्पेनापि अल्पमपि वा । क सति ? अन्यवधेपि दैवात्प्राण्यन्तराणां प्राणव्यपरोपणेपि संपन्ने सति । किमिव केन ? पद्मभिवोद्वा । यथा न लिप्यते। किं तत् ? पद्मं कमलम् । केन ? उद्गा उदकेन । किं. विशिष्टेन ? अणुशोपि । “पादमासनिशाहृदययूषदोर्दन्तनासिकोदकासनशकृद्यकृदसृजां पन्मासनिशहृद्यूषन्दोषन्दन्नस् उन्नासन् शकन् यकन् असनो वा स्यादावऽधुटि" इत्यनेनोदकस्योदन् । उक्तं च
अजदाचारो समणो छस्सुवि काएमु बंधगोति मदो।
चरति जदं जदि णिचं कमलं व जले णिरुवलेवो। तथा यदनाहतो यास्वयत्नपरो वध्यते । केन ? पापेन । कथम् ? अलं पर्याप्तम् । क ? परवधाभावेपि । तथा यद्योगाद् याभिः समि
१ अयताचारः श्रमणः षट्स्वपि कायेषु बन्धक इति मतः । चरति यतं यदि नित्यं कमलं वा जले निरुपलेपः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org