SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३१८ अनगारधर्मामृते कान् ? विष्टादिकान् पुरीषमूत्रमुखनासिकागतश्लेष्मकेशोत्पाटनवालसप्तमधातुपित्तच्छर्दितप्रमुखानर्थान् । क? क्षितितले भूपृष्टे न शिलादौ । किं. विशिष्टे ? निर्जन्तौ द्वीन्द्रियादिजीववर्जिते हरिततृणादिरहिते च । कु. शले वल्मीकाद्यातङ्ककारणमुक्तत्वात्प्रशस्ते । विविक्तविपुले विविक्ते अ. शुच्याद्यवस्कररहिते निर्जने च, विपुलेऽसङ्कटे । लोकोपरोधोज्झिते जनसंकोचमुक्ते । प्लुष्टे दवश्मशानायग्निदग्धे । कृष्टे हलेनासद्विदारिते। उत अथवा ऊषरे क्षारमृत्तिके स्थण्डिले इत्यर्थः । कदा? द्यः दिने । नक्तं रात्रौ पुनर्विष्ठादिकानुत्सृजन क्षितितले उत्सर्गसमितावृत्तिष्ठते । कीदृशे द्युः दिने ? अभितः समन्तात् दृष्टे निरीक्षिते । केन ? प्रश्नाश्रमणेन वैयावृत्त्यादिकुशलेन साधुना विनयपरेण सर्वसंघप्रतिपालकेन वैराग्यपरेण जितेन्द्रियेण च । किं कृत्वा ? विभज्य अवच्छिद्य । कतिधा ? त्रिधा । इदमत्र तात्पर्य-प्रज्ञाश्रमणेन सति सूर्ये रात्रौ साधूनां विण्मूत्राद्युत्सर्गाथै त्रीणि स्थानानि द्रष्टव्यानि । तथाच सति प्रथमे कदाचिदशुद्ध द्वितीयं, द्वितीयेपि चाशुद्ध तृतीयं तेनुसरन्ति । पुनः किंविशिष्टे ? सुस्पृष्टेपि सम्यकृतस्पर्श विष्टादीनुत्सृष्टुकामेन । केन ? अपहस्तकेन विपरीतकरतलेन । उक्तं च वणदाहकिसिमसिकदेथं डीले अणुपरोधविच्छिण्णे। अवगदजंतुविवित्ते उच्चारादी विसजिजो॥ उच्चारं पासवणं खेलं सिंघाणयादिजं व्वं । अच्चित्तभूमिदेसे पडिले हित्ता विसजिजो॥ तथा रात्रौ च तत्त्यजेत्स्थाने प्रज्ञाश्रमणवीक्षिते । कुर्वन् शङ्कानिरासायापहस्तस्पर्शनं मुनिः ॥ द्वितीयाद्यं भवेत्तच्चेदशुद्धं साधुरिच्छति । लघुत्वस्यावशे दोषो न दद्याहरुकं यतेः॥ निरतिचारसमितिपरस्य हिंसाधभावलक्षणं फलमाह समितीः स्वरूपतो यतिराकारविशेषतोप्यनतिगच्छन् । जीवाकुलेपि लोके चरन्न युज्येत हिंसाद्यैः ॥ १७०॥ न युज्येत न युक्तो भवेत् । कोसौ ? यतियत्नपरः साधुः । कैः ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy