________________
३१७
चतुर्थोऽध्यायः। ग्राहिणा च सप्तमेन । कया ? भत्तया निर्व्याजानुरागेण । कथम् ? वि. धिवत् प्रतिग्रहादिविधानेन । चः समुच्चये। __ आदाननिक्षेपसमिति लक्षयतिसुदृष्टमृष्टं स्थिरमाददीत, स्थाने त्यजेत्ताशि पुस्तकादि । कालेन भूयः कियतापि पश्येदादाननिक्षेपसमित्यपेक्षः॥१६८ __ आददीत गृह्णीयात् । कोसौ ? आदाननिक्षेपसमित्यपेक्षः। आदानं च निक्षेपश्चादाननिक्षेपम् । तस्य समितिः सम्यक्प्रवृत्तिरादाननिक्षेपसमितिः । तामपेक्षते यः स तथोक्तः । किं तत् ? पुस्तकादि । पुस्तक आदियस्य फलककुण्डिकादिद्रव्यस्य तत् । किंविशिष्टम् ? सुदृष्टमृष्टं । सु. दृष्टं पूर्व चक्षुषा सम्यग्निरूपितं सुमृष्टं पश्चापिन्छिकया प्रतिलेखितम् । कथं कृत्त्वा ? स्थिरं विश्रब्धम् । अनन्यचित्तमित्यर्थः । तथा त्यजेनिक्षिपदसौ किं तत् । पुस्तकादि । कथम्? स्थिरम् । क ? स्थाने। किंविशिष्टे ? ता. दृशि सुदृष्टमृष्टे । तथा पश्येत् निरीक्षेतासौ पुस्तकादि । केन ? कालेन । किंविशिष्टेन ? कियतापि संभावितसंमूर्छनयोग्यत्वेन । कथम् ? भूयः पुनः निक्षेपस्य पश्चात् । उक्तं च
आदाणे णिक्खेवे पडिलेहिय चक्खुणा समासिज्जो। दव्वं च दवठाणं संयमसिद्धीइ सो भिक्खू॥ सहसाणाभोइददुप्पमजियापधुवेक्षणा दोसा। परिहरमाणस्स भवे समिदी आदाणणिक्खेवा ॥ उत्सर्गसमिति निर्देष्टुमाह- . निर्जन्तौ कुशले विविक्तविपुले लोकोपरोधोज्झिते, प्लष्टे कृष्ट उतोषरे क्षितितले विष्ठादिकानुत्सृजन् । धुः प्रज्ञाश्रमणेन नक्तमभितो दृष्टे विभज्य विधा, सुस्पृष्टेप्यपहस्तकेन समितावुत्सर्ग उत्तिष्ठते ॥ १६९ ॥
उत्तिष्ठते उत्सहते साधुः । कस्याम् ? समिती । क विषये ? उत्सर्गे । उत्सर्गसमिती यतते इत्यर्थः । किं कुर्वन् ? उत्सृजन मुञ्चन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org