________________
अनगारधर्मामृते—
अन्तरादयोऽनन्तराध्याये व्याख्यास्यन्ते । अनुषजति अनुबध्नाति भजतीत्यर्थः I कोसौ ? अधः कर्ममुक् अधः कर्म सूनाङ्गिहिंसनं मुञ्चति त्यजतीत्यधः कर्ममुक् साधुः । काम् ? समितिं सम्यक्प्रवृत्तिम् । कस्याः ? एषणायाः । एषणासमितिं सेवते इत्यर्थः । किंकुर्वन् ? अश्नन् भुञ्जानः । किं तत् ? विघ्नेत्यादिविशेषणविशिष्टमन्नम् । अद्यते भुज्यते इत्यन्नं चतुर्विधाहारः । कया ? मात्रया प्रमाणेन । क्व ? काले । किंविशिष्टः सन् ? तपोभृत् इन्द्रियमनसोर्नियमानुष्ठानलक्षणं तपः पुष्णन् । किंविशिष्टमन्नम् ? प्रस्मार्य विस्मरणीयमविषयीकृतम् । त्यक्तमित्यर्थः । कैः ? उद्गमोत्पाददोषैः उत्पद्यमानेऽन्ने दातृप्रयोगमुखेणोद्गता उद्गमे दोषा उद्गमदोषा औद्देशिकादयः । उत्पादनमुत्पादः भोक्त्रा अन्नस्योत्पादना, उत्पादे दोषा उत्पाददोषा धात्र्यादयः । उद्गमश्चोत्पादश्चोद्गमोत्पादौ । उद्गमोत्पादयोर्दोषा उद्गमोत्पाददोषास्तैः । किंविशिष्टैः ? विघ्नेत्यादि । विघ्ना भुजिक्रियान्तरायाः । अङ्गार आदिर्येषां तेऽङ्गारादयो भुक्तिदोषाः शङ्का प्रमुखा आद्या येषां ते शङ्काप्रमुखा भोज्यदोषाः । विघ्राश्चाङ्गारादयश्च शङ्काप्रमुखाश्च विघ्न्नाङ्गारादिशङ्काप्रमुखाः परिकरः परिवर्गो येषां ते विघ्नाङ्गारादिशङ्काप्रमुखपरिकरास्तैः । अन्तः रायैरङ्गारादिभिः शङ्कादिभिरुद्रम दोषैरुत्पादनादोषैश्च वर्जितमित्यर्थः । पुनः किंविशिष्टम् ? वीरचर्यार्जितं वीरचर्यया अदीनवृत्या अर्जितमात्मसात्कृतम् । पुनरपि किंविशिष्टम् ? अमलम् । न विद्यन्ते मलाः पूयास्रादयो यस्मिन् । अधःकर्ममुगित्येतदन्नस्य वा विशेषणम् । अधःकर्माख्यं महादोषं मुञ्चति वर्जयतीत्यधः कर्ममुक् । पुनः किंविशिष्टम् ? भावशुद्धम् । भावेन भोक्तृपरिणामेन शुद्धमदूषितं भावो वा शुद्धो यस्मिन् । पुनरपि किंविशिष्टम् ? स्वेत्यादि । स्वो भोक्तुरात्मा । अन्यो दात्रादीनामात्मा | स्वश्चान्यश्च स्वान्यौ । स्वान्यावनुगृह्णात्युपकरोतीत्येवंशीलः स्वान्यानुग्राही । स चासौ देहश्च शरीरं स्वान्यानुग्राहिदेहः । तस्य स्थितिर्यावदायुरवस्था - नम् । तत्र पटु समर्थम् । स्वपरोपकारिशरीरं वर्तयितुं क्षममित्यर्थः । पुनरपि किंविशिष्टम् ? दत्तं वितीर्णम् । कैः ? अन्यैर्ब्राह्मणक्षत्रियवैश्य सच्छूदैः स्वदातृगृहाद् वामतस्त्रिषु गृहेषु दक्षिणतश्च त्रिषु वर्तमानैः षड्रभिः स्वप्रति
३१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org