SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः । लोकद्वयेन भाषासमितिलक्षणमाह-कर्कशा परुषा की निष्ठुरा पर कोपिनी । छेदङ्करा मध्यकृशातिमानिन्यनयङ्करा ।। १६५ ॥ भूतहिंसाकरी चेति दुर्भाषां दशधा त्यजन् । हितं मितमसंदिग्धं स्याद्भाषासमितो वदन् ॥ १६६ ॥ ( युग्मम् ) स्यात्साधुः । कीदृशः ? भाषासमितः । किं कुर्वन् ? कर्कशा दिदशविधां दुर्भाषां दुष्टवाचां त्यजन् वर्जयन् हितं मितमसंदिग्धं वदंश्च । तत्र (1) कर्कशा संतापजननी -मूर्खस्त्वं, बलीवर्दस्त्वं न किंचिज्जानासीत्यादिका । ( २ ) परुषा मर्मचालनी त्वमनेकदोषदुष्टोसीति । ( ३ ) कट्टी उद्वेगजननी - जातिहीनस्त्वं निर्धर्मस्त्वमिति । ( ४ ) निष्ठुरा - स्वां मारयिष्यामि, शिरस्ते कर्तयिष्यामीति । ( ५ ) परकोपिनी - किं ते तपः, प्रहसनशीलो निर्लजस्त्वमिति । ( ६ ) छेदङ्करा छेदकरी वीर्यशीलगुणानां निर्मूलविनाशकरी अथवाऽसद्भूत दोषोद्भावनी । (७) मध्यकृषा ईदृशी निष्ठुरा वाग् यास्थनां मध्यमपि कृष्यति तनू करोति । ( 4 ) अतिमानिनी आत्मनो महत्त्वख्यापनपरान्येषां निन्दापरा च । ( ९ ) अनयङ्करा शीलानां खण्डनकरी अन्योन्यसङ्गतानां वा विद्वेषकारिणी । (१०) भूतहिंसाकरी प्राणिनां प्राणवियोगकरी | हितं स्वपरोपकारकम् । मितं विवक्षितार्थोपयोगि । असं. दिग्धं संशयानुत्पादकम् । भाषासमितिरस्यास्तीति ' अर्श आदि ' त्वात्मशं ८ सायामप्रत्ययः । एषणासमितिलक्षणमाह- Jain Education International ३१५ विभाङ्गारादिशङ्काप्रमुखपरिकरैरुद्मोत्पाददोषैः, प्रस्मायें वीरचर्यार्जितममलमधः कर्ममुग् भावशुद्धम् । स्वान्यानुग्राहि देहस्थितिपटु विधिवद्दत्तमन्यैश्च भक्त्या, कालेनं मात्रयाश्नन् समितिमनुषजत्येषणायास्तपोभृत् ॥ १६७॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy