________________
अनगारधर्मामृते
किलक्षणाः ? ईयेत्यादि । ईयां गमनम् । भाषा वचनम् । एषणा भोजनम् । आदाननिक्षेपं संग्रहणस्थापनम् । उत्सर्गों विसर्जनम् । ईयर्या च भाषा चैषणा चादाननिक्षेपं चोत्सर्गश्च । ते लक्षणानि स्वरूपाणि यासाम् । आदानं च निक्षेपश्चादाननिक्षेपमिति समाहारद्वन्द्वः । सम्यकू श्रुतनिरूपितक्रमेणेतिर्गतिर्वृत्तिः समितिरिति हि नैरुक्ताः ।
ईर्यासमितिलक्षणमाहसादीर्यासमितिः श्रुतार्थविदुषो देशान्तरं प्रेप्सतः, श्रेयःसाधनसिद्धये नियमिनः कामं जनैहिते। मार्गे कौकुटिकस्य भास्करकरस्पृष्टे दिवा गच्छतः, कारुण्येन शनैः पदानि ददतः पातुं प्रयत्याङ्गिनः ॥ १६४ ॥
स्यात् संपद्यते। कासौ ? ईर्यासमितिः । कस्य ? नियमिनो तिनः । किं कुर्वतः ? गच्छतः संचरतः । क ? मार्गे पथि । किंविशिष्टे ? वाहिते विध्वस्ते । कैः ? जनैर्मनुष्यगजतुरगशकटादिभिः । कथम् ? कामं यथेष्टमत्यर्थं वा। पुनः किंविशिष्टे ? भास्करकरस्पृष्टे सूर्यरश्मिसंश्लिष्टे । कदा गच्छतः ? दिवा, न रात्रौ । किं कुर्वतः ? ददतः स्थापयतः । कानि? पदानि पदान् । कथम् ? शनैर्मन्दं मन्दम् । कया ? प्रयत्या प्रयत्नेन । किं कर्तुम् ? पातुं रक्षितुम् । कान् ? अङ्गिनः प्राणिनः। केन? कारुण्येन । किंविशिष्टस्य सतः? श्रुतार्थविदुषः प्रायश्चित्तादिसूत्रार्थ जानतः। तत्रोपयुक्तस्येत्यर्थः । पुनः किं चिकीर्षतः ? प्रेप्सतः प्राप्तुमिच्छतः । किं तत् ? देशान्तरं स्वाध्युषितस्थानादन्यत्स्थानम् । कस्यै ? श्रेयःसाधनसिद्धये । श्रेयसः साधनानां सम्यग्दर्शनादीनां तदङ्गानां चापूर्वचैत्यालयसदुपाध्यायधर्माचार्यादीनां सिद्धिः संप्राप्तिस्तदर्थम् । पुनः किंविशिष्टस्य ? कौकुट्टिकस्य कुक्कुटी कुक्कुट्टी. पातमात्रं देशं पश्यतः । पुरो युगमात्रदेशप्रेक्षिण इत्यर्थः । “ लालाटिककौकुटिको " इति निपातनात्साधुः । उक्तं च
मग्गुज्जोउवओगालंबणसुद्धीहिं इरियदो मुणिणो। सुत्ताणुवीचिभणिया इरियासमिदी पवयणम्हि ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org