________________
चतुर्थोऽध्यायः।
३१३
त्यागलक्षणायाः कायगुप्तेरतीचारः । उत अथवा कायगुप्तेर्मलः स्यात् । किम् ? अङ्गवृत्त्युपरतिः शरीरव्यापारनिवृत्तिः । कथं कृत्वा ? सापध्यानम् । देहेन हस्तादिना वा परीषहाद्यपनयनचिन्तनमनापध्यानम् । तेन सहितं यथा भवति । अयमचेष्टारूपायाः कायगुप्तेरतिचारः । इति गुप्तिप्रकरणम् ।
अथ चेष्टितुकामो मुनिः समिति परः स्यादित्यनुशास्तिगुप्तेः शिवपथदेव्या बहिष्कृतो व्यवहतिप्रतीहार्यो । भूयस्तद्भक्त्यवसरपरः श्रयेत्तत्सखी शमी समितीः ॥१६२॥
श्रयेत् आश्रयेत् । कोसौ ? शमी यतिः । काः ? समितिक्ष्यमाणलक्षणाः । किंविशिष्टाः ? तत्सखीगुप्तेरनुचरीः। किंविशिष्टः सन् ? बहिष्कृतो दूरीकृतः । कस्याः ? गुप्तेः । किं विशिष्टायाः ? शिवपथदेव्या मोक्षमार्गाधिदेवतायाः । कया ? व्यवहृतिप्रतीहार्या व्यवहृतिश्चेष्टा प्रतीहारीव विराधकदूरीकरणात् । तथा चोक्तम्
कर्मद्वारोपरमणरतस्य तिस्रस्तु गुप्तयः सन्ति ।
चेष्टाविष्टस्य मुनेनिर्दिष्टाः समितयः पञ्च ।। पुनः किंविशिष्टः ? भूयस्तद्भत्तयवसरपरः पुनर्गुस्याराधनप्रस्तावावहितश्च । अयमत्राभिप्रायो-यथा नायिकामाराधयितुकामस्य नायकस्यावसरमलभमानस्य तदनुकूलनार्थ तत्सखीनामाश्रयणं श्रेयस्तथा मुमुक्षोगुह्याराधनपरस्य । समितीनां सखीत्वं चासां नायिकाया इव गुप्तेः स्वभावाश्रयणात् । समितिषु हि गुप्तयो लभ्यन्ते, न तु गुप्तिषु समितयः । निरुक्तिगम्यं समितिसामान्यलक्षणं विशेषोद्देशसहितमाहईयभाषणादाननिक्षेपोत्सर्गलक्षणाः।। वृत्तयः पञ्च सूत्रोक्तयुक्त्या समितयो मताः ॥ १६३ ॥ मताः पूर्वाचार्याणामिष्टाः । काः । ? समितयः । कति ? पञ्च । कथं भूताः ? वृत्तयः प्रवृत्तयः । कया ? सूत्रोक्तयुक्त्या श्रुतनिरूपितक्रमेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org