________________
३१२
अनगारधर्मामृते
स्यात् कोसौ ? अत्ययोतीचारः । कस्याः ? वाग्गुप्तेः । कथंभूतः ? कार्कश्यादीत्यादिना निर्दिष्टः । किं वत् ? तद्वत् मनोगुप्तिवत् । यथास्वमित्यर्थः । कार्कश्यादिः । कर्कशा परुषेत्यादिना भाषासमितौ वक्ष्यमाणो दशको वाग्दोषः । कार्कश्यादिर्गरः कृत्रिमविषमिव मोहसंतापादिहेतुत्वात् । तस्योद्गारः श्रोतृन्प्रत्युच्चारणम् । विकथा मार्गविरुद्धाः कथाः स्त्रीराजचौरभक्तविषयाः । तास्वादरः प्रकाशयितुमुद्यमः । सह विकथादरेण वर्तते इति सविकथादरः । सोयं द्वयोपि दुरुक्तित्यागरूपाया वाग्गुप्तेरतीचारः । हुंकार आदिर्येषां हस्तसंज्ञाखात्कारभ्रूचलनादीनां ते हुंकारादयः तेषां क्रिया प्रयोगो हुंकारादिक्रिया । एष मौनलक्षणाया वाग्गुप्तेरतीचारः । कायगुप्तेरतीचारानाहकायोत्सर्गमलाः शरीरममतावृत्तिः शिवादीन्यथा, भक्तं तत्प्रतिमोन्मुखं स्थितिरथाकीर्णेशिणैकेन सा । जन्तुस्त्रीप्रतिमापरस्वबहुले देशे प्रमादेन वा, सापध्यानमुताङ्गवृत्त्युपरतिः स्युः कायगुप्तेमलाः ॥१६१ ।
स्युर्भवेयुः । के ? मलाः । कस्याः ? कायगुप्तेः। किंरूपाः ? कायो. त्सर्गेत्यादिना निर्दिष्टाः । तत्र कायोत्सर्गमला द्वात्रिंशदावश्यकाध्याये वक्ष्यमाणाः । तथा शरीरममतावृत्तिः शरीरमिदं मदीयमिति प्रवृत्तिस्तथा स्थितिः । कथम् ? तत्प्रतिमोन्मुखं शिवसुगतादिप्रतिबिम्बाभिमुखम् । किं कर्तुमिव ? भक्तुं यथा आराधयितुमिव । कान् ? शिवादीन् । अञ्जलि. बन्धादिकं कृत्वा शिवादिप्रतिमाभिमुखमुनी भूयावस्थानमित्यर्थः । तथा अथ अथवाऽऽकीर्ण जनसंकुले स्थाने सा स्थितिः । केन । अक्षिणा पादेन । किंविशिष्टेन ? एकेन । एते व्यस्ताः समस्ताश्च कायोत्सर्गस्वभावायाः कायगुप्तेरतीचाराः वा अथवा कायगुप्तेर्मलः स्यात् । किम् ? स्थितिः। केन? प्रमादेन अयत्नाचरणेन । क? देशे प्रदेशे । किंविशिष्टे ? जन्त्वित्यादि । जन्तवः प्राणिनः । स्त्रीप्रतिमाः स्त्रीणां काष्ठपुस्तादिनिर्मितप्रतिरूपकाणि । परवानि परधनानि । जन्तवश्व स्त्रीप्रतिमाश्च परस्वानि च जन्तुस्त्रीप्रतिमापरस्त्रानि । तानि बहुलानि प्रचुराणि यस्मिन् स एवम् । एष हिंसादि
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org