________________
चतुर्थोऽध्यायः।
३११
wwwwwwwww
wwamre
wwwwwwwwwwwwwwwwwww
सिद्धयोगमहिमानमाश्चर्य भावयतिअहो योगस्य माहात्म्यं यस्मिन् सिद्धेऽस्ततत्पथः। पापान्मुक्तः पुमाल्लँब्धस्वात्मा नित्यं प्रमोदते ॥१५८ ॥
अहो आश्चर्य वर्तते । किं तत्? माहात्म्यम्। कस्य ? योगस्य ध्यानस्य । यस्मिन्योगे सिद्धे अप्रमत्तसंयतप्रथमसमयादारभ्याऽयोगकेवलिप्रथमसमये व्युपरतक्रियानिवर्तिलक्षणचतुर्थशुक्लध्यानरूपतया निष्पने सति पुमान:स्ततत्पथः पापान्मुक्तश्च भूत्वा लब्धस्वात्मा सन्नित्यं शश्वत् प्रमोदते परमानन्दमनुभवति । अस्तो निराकृतस्तत्पथः पापमार्गो येन सोऽस्ततत्पथः। परमसंवृत इत्यर्थः । पापं चात्र सकलं कर्म । लब्धः प्राप्तः स्वात्मा स्वस्वरूपं येन स लब्धस्वात्मा। परममुक्त इत्यर्थः संसाराभावे पुंसः स्वात्मलाभो मोक्ष इति वचनात् । __ मनोगुप्तेरतीचारानाहरागाद्यनुत्तिर्वा शब्दार्थज्ञानवैपरीत्यं वा ।। दुष्प्रणिधानं वा स्यान्मलो यथास्वं मनोगुप्तेः ॥१५९॥
रागाद्यनुवृत्त्यादित्रयरूपो मनोगुप्तेर्मलोऽतीचारो यथास्वं यथायथं स्यात् । तत्र रागाद्यनुवृत्ती रागद्वेषमोहानुगम्यमानात्मपरिणतिः। एतस्याश्चातीचारत्वं, मनोगुप्तौ सापेक्षत्वेनैकदेशभङ्गत्वात् । एवमुत्तरत्रापि चिन्त्यम् । स एष रागादित्यागरूपाया मनोगुप्तेरतीचारः । शब्देत्यादि । शब्दवैपरीत्यं शब्दशास्त्रविरोधित्वं विवक्षितार्थान्यथात्वप्रकाशकत्वं वा । अर्थः सामान्यविशेषात्माऽभिधेयं वस्तु । तस्य वैपरीत्यं सामान्यमानं विशेषमात्रं द्वयं वा स्वतन्त्रम् । अथवा जीवादीनां यथोक्तस्वरूपविपर्यासोर्थवैपरीत्यम् । ज्ञानवैपरीत्यं शब्दस्यार्थस्य तद्यस्य वान्यथाभावेन प्रतिभासः । स एष समयसमभ्यासलक्षणाया मनोगुप्तेरतीचारः। दुष्प्रणिधानमातरौद्रे मनसोऽ. नर्पितत्वं वा । स एष सद्ध्यानरूपाया मनोगुप्तेरतीचारः । वाग्गुप्तेरतीचारानाह--
कार्कश्यादिगरोद्गारो गिरः सविकथादरः । हुंकारादिक्रिया वा स्याद्वारगुप्तेस्तद्वदत्ययः॥ १६०॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org