SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३१० अनगारधर्मामृते《འགན་་ ན ན ངངང ང ང་ན ན ནང ང ང ང གནད ང ང ང ང ན ངངས ན ན ང་འ ང གར་འཆན་བཀག ན ཆ, གདང པ་གནངགགཉཀཀཀཀ ཀ ཀཀཀར क्तिगुप्तिं वाग्गुप्तिम् । कीदृशीम् ? दुरुक्तित्यजनतनुं परुषवचनादिपरिहारशरीराम् अवाग्लक्षणां वा मौनरूपाम् । तथा चोक्तम् साधुसंवृतवाग्वृत्तौनारूढस्य वा मुनेः। संज्ञादिपरिहारेण वाग्गुप्तिः स्यान्महामतेः॥ तथा समदृक् पाप्मना न लिप्यते । किं कुर्वन् ! अनुपतन् । काम् ? कायगुप्तिम् । कीदृशीम् ? कायोत्सर्गस्वभावाम् । कायोत्सगों देहममत्वत्यागः स्वभावः स्वरूपं यस्याः सैवम् । अथवा विशररतचुरापोहदेहाम् । विशरो हिंसा । रतं मैथुनम् । चुरा चौर्यम् । ताभ्योऽपोहो व्या. वृत्तिः । स एव देहः स्वरूपं यस्याः सैवम् । वा अथवा अनीहाकायां सर्वचेष्टानिवृत्तिरूपाम् । तदुक्तम् स्थिरीकृतशरीरस्य पर्यत संश्रितस्य वा। परीषहप्रपातेपि कायगुप्तिर्मता मुनेः ॥ अपि च कायक्रियानिवृत्तिः कायोत्सर्गः शरीरके गुप्तिः । हिंसादिनिवृत्तिर्वा शरीरगुप्तिः समुद्दिष्टा ॥ परमार्थत्रिगुप्तमनूद्य तस्यैव परमसंवरनिर्जरे भवत इत्युपदिशतिलुप्तयोगस्त्रिगुप्तोऽर्थात्तस्यैवापूर्वमण्वपि ।। कर्मास्रवति नोपात्तं निष्फलं गलति स्वयम् ॥ १५७ ॥ भवति । कोसौ ? त्रिगुप्तो गुप्तित्रयपरिणत आत्मा । कस्मात् ? अर्थात् परमार्थतः । कीदृशः ? लुप्तयोगो निरुद्धमनोवाक्कायव्यापारः । तिस्रो गुप्तयोऽतिशयेनास्य सन्तीति । "अर्शआदेरः" । यतो नास्त्रवति नागच्छति । किं तत् ? कर्म कर्मयोग्यपुद्गलद्रव्यम् । किं विशिष्टम् ? अपूर्व नवम् । कियदपि ? अण्वपि परमाणुमात्रमपि । कस्य ? तस्यैव परमार्थ त्रिगुप्तस्य । तथा गलति प्रच्यवते । किं तत् ? कर्म । किंविशिष्टम् ? उपात्तं पुराबद्धम्। कथं कृत्वा ? निष्फलं स्वफलमदत्त्वैव । कथम् ? स्वयं प्रयत्नमन्तरेणैव । कस्य ? तस्यैव। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy