SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। पायात् रक्षेद्रती । कम् ? आत्मानम्। कस्मात् ? अपायात् रत्न. जय_शनोपायात् । काभिः ? मनोवाकायगुप्तिभिर्मनोवाक्काययोगनिग्रहैः । किंविशिष्टम् ? रत्नभासुरं सम्यग्दर्शनादिभिः साधुत्वेन भासमानम् । किंवत् ? पुरवत् । यथा राजा रत्नैः स्वस्वजात्युत्कृष्टैरथैः साधुत्वेन भासमानं नगरं प्राकारपरिखावरपायादभ्युदयभ्रंशनोपायाद्रक्षति । प्राकारोऽन्तःशालः। परिखा खातिका । वप्रः खातिकाबहिधूलीप्राकारः। यदाह “वप्रः स्याद्धूलिकुट्टिमम्" इति । मनोगुहयादीनां विशेषलक्षणान्याहरागादित्यागरूपामुत समयसमभ्याससद्ध्यानभूतां, चेतोगुप्तिं दुरुक्तित्यजनतनुमवाग्लक्षणां वोक्तिगुप्तिम् । कायोत्सर्गखभावां विशररतचुरापोहदेहामनीहाकायां वा कायगुप्तिं समदृगनुपतन्पाप्मना लिप्यते न ॥१५६॥ न लिप्यते नोपदिह्यते । कोसौ ? समदृक् । समं सर्व हेयमुपादेयं च तत्त्वेन पश्यन् जीवितमरणादौ वा समबुद्धिः साधुः । केन ? पाप्मना ज्ञानावरणादिकर्मणा । किं कुर्वन् ? अनुपतन् अधुगच्छन् । काम् ? चेतो. गुप्तिम् । कीदृशीम् ? रागादित्यागरूपां रागद्वेषमोहापोहस्त्रभावाम् । उत अथवा समयसमभ्याससद्ध्यानभूतां समयसमभ्यासत्वं सध्यानत्वं वा प्राप्ताम् । समय आगमः । स त्रेधा शब्दसमयोर्थसमयो ज्ञानसमयश्वेति । समयस्य सम्यग् विनयपरत्वेनाभ्यसनं समयसमभ्यासः । सद्ध्यानं धर्म्य शुक्लं च । तया चोक्तम् विहाय सर्वसंकल्पान् रागद्वेषावलम्बितान् । स्वाधीनं कुर्वतश्चेतः समत्वे सुप्रतिष्ठितम् ॥ सिद्धान्तसूत्रविन्यासे शश्वत् प्रेरयतोथवा । भवत्यविकला नाम मनोगुप्तिर्मनीषिणः॥ तथा समदृक् पाप्मना न लिप्यते । किं कुर्वन् ? अनुपतन् । काम् ? उ. Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy