________________
अनगारधर्मामृते
श्रुतविद आगमज्ञा विदुजनन्ति । काः ? तिस्रस्त्रिसंख्या गुप्तीः पञ्च समितीश्च । अपि चेति समुच्चये । किंविशिष्टा विदुः ? अम्बाः मातृः । किं कर्तुम् ? जनयितुं उत्पादयितुं पातुं पालयितुं, विमलयितुं वा शोधयितुम् । किं तत् ? सुवृत्तं सम्यक्कारित्रम् । किम् ? वृतम् । किंरूपम् ? अहिंसा महिंसारूपम् । अथ पञ्चात्म हिंसाविरत्यादिपञ्चकम् । किंविशिष्टमेतदुभयमपि सुवृत्तं ? यताङ्गं यतस्य सावद्यविरतस्य योगाय वा यतमानस्याङ्गं शरीरं । यथा जनन्यः पुत्रशरीरं जनयन्ति पालयन्ति शोधयन्ति च तथा गुप्तिसमितयः सम्यक्चारित्रलक्षणं यतिगात्रमित्यर्थः । यत एवं तत् तस्मात् श्रयन्तु आराधयन्तु । के ? व्रतपरा व्रतनिष्ठाः । काः ? इमा गुप्तिसमितीः । किंविशिष्टाः ? प्रवचनसवित्रीः प्रवचनस्य रत्नत्रयस्य मातृः । कति ? अष्टौ । कस्मै ? इष्टाय अभिप्रेतार्थसिद्ध्यर्थम् ।
1
गुप्तिसामान्यलक्षणमाह
गोतुं रत्नत्रयात्मानं स्वात्मानं प्रतिपक्षतः । पापयोगान्निगृह्णीयाल्लोकपंत्यादिनिस्पृहः
1
॥ १५४ ॥ निगृह्णीयाद् दण्डयेत् । कोसौ ? व्रतपरः । कान् ? पापयोगान् । व्यवहारेण पापाः पापार्थी निश्चयेन च शुभाशुभकर्मास्रवणकारणत्वान्निन्दिता योगा मनोवाक्कायव्यापारास्तान् । यदाहवाक्कायचित्तजानेकसावद्यप्रतिषेधकम् ।
३०८
त्रियोगरोधकं वा स्याद्यत् तहुप्तित्रयं मतम् ॥
किंविशिष्टः सन् ? लोकपङ्कयादिनिस्पृहः । लोकपङ्क्तौ लोकैः क्रियमाणायां पूजायाम्, आदि शब्दालाभे ख्यातौ च निरीहः । एतेन 'सम्ययोगनिग्रहो गुप्तिः' इत्यनुसूत्रितं प्रतिपत्तध्यम् । किं कर्तुमसौ तान्निगृह्णीयात् ? गोप्तुं रक्षितुम् । कम् ? स्वात्मानम् । किंविशिष्टम् ? रत्नत्रयात्मानं सम्यग्दर्शनादिमयम् । कस्मात् ? प्रतिपक्षतो मिथ्यादर्शनादित्रयात् कर्मबन्धनाद्वा ।
दृष्टान्तेन गुप्तिप्रयोगाय जागरयतिप्राकारपरिखावप्रैः पुरखद्रत्नभासुरम् । पायादपायादात्मानं मनोवाक्कायगुप्तिभिः ॥ १५५ ॥
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org