________________
चतुर्थोऽध्यायः।
तत्रापि तत्त्वतः पञ्च ध्यातव्याः परमेष्ठिनः।।
चत्वारः सकलास्तेषु सिद्धस्वामी तु निष्कलः ॥ किं कृत्वा ? स्मृत्त्वा ध्यात्वा । किं तत् ? यत्किचिदनियतं चेतनमचेतनं वा वस्तु । किंविशिष्टम् ? रुचितं श्रद्धया विषयीकृतम् । कया ? स. मतया रागद्वेषाविषयत्वेन । कियत्कालम् ? चिरं परमौदासीन्ययोग्यता यावत् । यदाह
यत्रैवाहितधीः पुंसः श्रद्धा तत्रैव जायते । यत्रैव जायते श्रद्धा चित्तं तत्रैव लीयते ॥ अपि चकिमत्र बहुनोक्तेन ज्ञात्वा श्रद्धाय तत्त्वतः।
ध्येयं समस्तमप्येतन्माध्यस्थ्यं तत्र बिभ्रता ॥ किं कृत्वा ? आवेद्य जीवादिध्येयवस्तु यथावस्थितत्वेन निर्णीय । कस्मात् ? समयादागमात् । किविशिष्टात् ? अञ्चितात् पूजितात् । अनुगृही. तादित्यर्थः । कया ? युक्त्या संप्रदायाव्यवच्छेददृष्टेष्टाविरोधादिहेतुना । किं कृत्वा ? प्रसद्य अप्रशस्तरागद्वेषादिरहितं भूत्वा । कस्मात् ? मैच्या. द्यभ्यसनात् सत्त्वगुणाधिकक्लिश्यमानाविनेयविषयमैत्रीप्रमोदकारुण्यमाध्यस्थ्यभावनात् । यदाह
एता मुनिजनानन्दसुधास्यन्दैकचन्द्रिकाः। ध्वस्तरागादिसंक्लेशा लोकाग्रपथदीपिकाः॥ इति महाव्रतप्रकरणम् । एवं विशेषसामान्यभावनारात्रिभोजनवर्जनपरिकराणि व्रतान्यभिधाय सांप्रतं गुप्तिसमितीळख्यातुकामस्तासां प्रवचनमातृत्वोपपत्तिप्रतिपादनपूर्वकं व्रतोद्यतानामाराध्यत्वमुपदिशति
अहिंसां पञ्चात्म व्रतमथ यताङ्गं जनयितुं, सुवृत्तं पातुं वा विमलयितुमम्बाः श्रुतविदः। विदुस्तिस्रो गुप्तीरपि च समितीः पञ्च तदिमा:, श्रयन्त्विष्टायाष्टौ प्रवचनसवित्रीब्रतपराः ॥ १५३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org