________________
३०६
अनगारधर्मामृते
ध्यात्त्वार्हन्तमुतखिदेकमितरेष्वत्यन्तशुद्धं मनः, सिद्धं ध्यायदहंमहोमयमहो स्याद्यस्य सिद्धः स वै ॥१५२ ॥ __ अहो भो महाव्रतपालनोद्यता मुनयो, वै स्फुटं स साधुर्भवति । किंविशिष्टः ? सिद्धः शुद्ध निश्चयवादिनां नियूंढमहाव्रतभरत्वेन प्रसिद्धः । तथा चोक्तम्
स च मुक्तिहेतुरिद्धो ध्याने यस्मादवाप्यते द्विविधोपि । तस्मादभ्यस्यन्तु ध्यानं मुधियः सदाप्यपास्यालस्यम् ॥ अथवा स तथा शुद्धस्वरूपपरिणतो ध्याता वै निश्चयेन सिद्धो भावतः परममुक्तः स्यात् । तथा चोक्तम्
परिणमते येनात्मा भावेन स तेन तन्मयो भवति ।
अर्हद्ध्यानाविष्टो भावार्हन् स्यात् स्वयं तस्मात् ॥ अपि च
येन भावेन यद्रूपं ध्यायत्यात्मानमात्मवित् । तेन तन्मयतां याति सोपाधिः स्फटिको यथा ॥ यस्य किम् ? यस्य मनश्चित्तं स्यात् । किंविशिष्टम् ? अहंमहोमयमात्मतेजोरूपम् । उक्तं च
लवणं व सलिलजोए झाणे चित्तं विलीयए जस्स। तस्स सुहासुहडहणो अप्पा अणलो पयासेइ ॥ ... किं कुर्वत् ? ध्यायत् एकाग्रतया चिन्तयत् । कम् ? सिद्धं परममु. क्तम् । कथंभूतं भूत्वा ? अत्यन्तशुद्धं परमौदासीन्यपरिणतम् । किं कृत्त्वा ध्यात्त्वा एकाग्रत्वेन चिन्तयित्वा । कम् ? अर्हन्तं जीवन्मुक्तम् । उतस्वित् अथवा ध्यात्वा । कम् ? एकम् । केषु ? इतरेषु आचार्या दिषु त्रिषु मध्ये आचार्यमुपाध्यायं साधु वा ध्यावेत्यर्थः । कथंभूतं भूत्वा ! अतिसाम्योन्मुखं परमौदासीन्यपरिणामप्रयत्नपरम् । उक्तं च
सति हि ज्ञातरि शेयं ध्येयतां प्रतिपद्यते । ततो ज्ञानस्वरूपोयमात्मा ध्येयतमः स्मृतः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org