________________
चतुर्थोऽध्यायः।
दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितम् ।
प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ॥ तथा ते भावयन्तु । काम् ? उपेक्षा माध्यस्थ्यम् । अपि समुच्चये । कथम् ? इति । हे ब्राझि वाग्देवि एहि आगच्छ त्वम् । कम् ? मां साम्यभावनापरमात्मानम् । मा ब्रूहीत्यर्थः । का? न कापि शिक्षा शिष्टिर्भवति । केषु ? अद्रव्येषु यत्र सद्भिराधीयमाना गुणाः संक्रामन्ति तद् द्रव्यम् । इत्येवंलक्षणशून्येषु । तत्त्वार्थश्रवणग्रहणाभ्यामसंपादितगुणेषु । तथा चोक्तम्
क्रूरकर्मसु निःशङ्कं देवतागुरुनिन्दिषु ।
आत्मशंसिषु योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥ इमानि च मैत्र्यादिसूक्तान्यनुचिन्त्यानि । कायेन मनसा वाचा परा सर्वत्र देहि नि । अदुःखजननी वृत्तिमैत्री मैत्रीविदां मता ॥ तपोगुणाधिके पुंसि प्रश्रयाश्रयनिर्भरः । जायमानो मनोरागः प्रमोदो विदुषां मतः॥ दीनाभ्युद्धरणे बुद्धिः कारुण्यं करुणात्मनाम् । हर्षामोज्झिता वृत्तिर्माध्यस्थ्यं निर्गुणात्मनि ॥ यत्तु “हिंसादिष्विहामुत्रापायावद्यदर्शन" मिति, "दुःखसेव वा" इति सूत्रद्वयेन सर्वव्रतसाधारणं भावनान्तरमुच्यते तत् प्रतिव्रतं वाक्प्रबन्धेन प्रदर्शितमेव । अधुना
" अव्रती व्रतमादाय व्रती ज्ञानपरायणः। परात्मबुद्धिसंपन्नः स्वयमेव परो भवेत्॥" इति मोक्षमार्गविहरणमुररीकृत्य मैत्र्यादिभावनास्वाध्यायव्यवहारनिश्चय ध्यानविधानफलप्रकाशनेन महाव्रतनिर्वाहपरांस्तदुपयोगाय जागरयितुमाहमैत्र्याधभ्यसनात् प्रसद्य समयादावेद्य युक्त्याञ्चितात् यत्किचिट्ठचितं चिरं समतया स्मृत्वातिसाम्योन्मुखम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org