________________
३०४
अनगारधर्मामृते
भावयन्तु वीर्यान्तरायचारित्रमोहक्षयोपशमे सत्यसकृत् प्रवर्तयन्तु । के ते ? परमपदाभ्युद्यताः परमपदायानन्तज्ञानादिचतुष्टयलक्षणायाभिमुखमुद्युक्ताः । काम् ? मैत्रीम् । मित्रस्य भावः कर्म वा मैत्री सत्त्वेषु दुःखानुत्पत्तिकाङ्क्षा कथं भावयन्तु ? इति मा भूत् मा जनिष्ट । कोसौ ? कोपि कश्चित् प्राणी। किंविशिष्टः ? दुःखी दुःखेन तत्कारणेन च पापेन युक्तः । क ? इह लोके । तथा च पठन्ति. शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः।
दोषाः प्रयान्तु नाशं सर्वत्र सुखीभवतु लोकः ॥ तथा भजतु लभताम् । किं तत् ? जगत् विश्वम् । किं तत् ? शर्म सुखम् । किंविशिष्टम् ? असद्भर्म अविद्यमानव्याजम् । पारमार्थिकमित्यर्थः । तथा चोक्तम्
मा कार्षीत् कोपि पापानि मा च भूत्कोपि दुःखितः। मुच्यतां जगदप्येषा मतिमैत्री निगद्यते ॥ तथा ते भावयन्तु । कम् ? प्रमोदं वदनप्रसादादिभिरभिव्यज्यमानमन्तर्भक्तिरागम् । कथम् ? इति । वर्तते । किं तत् ? हृद् मनः । किं. विशिष्टम् ? ज्यायः प्रशस्यतरम् । किं कुर्वत् ? रज्यद् रागं गच्छत् । केषु ? तेषु। किंविशिष्टेषु ? अधिगुणेषु सम्यग्ज्ञानादिगुणोस्कृष्टषु देशकालविप्रकृष्टेषु स्मृतिविषयेषु । किमिव केषु ? नयनमधिगुणेष्वेष्विव । यथा वर्तते । किं तत् ? नयनं चक्षुः । किंविशिष्टम् ? ज्यायः । किं कुर्वत् ? रज्यत् । केषु ? एषु पुरोवर्तिषु दृश्यमानेषु । किं. विशिष्टेषु ? अधिगुणेषु गुणाधिकेषु । तथा चोक्तम्
अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः ॥ तथा ते भावयन्तु । काम् ? करुणां दीनानुग्रहभावम् । कथम् ? इति कथम् रक्षेयं त्रायेयमहम् । कान् ? आर्तान् विश्यमानान प्राणिनः । कस्मात् ? दुःखात् । दुःखार्तानां दुःखं कथं निवारयेयमहमि. त्यर्थः । तथा चोक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org