SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। पुनः किंविशिष्टानि ? नक्तमशनोज्झाणुव्रताग्राणि । नक्तं रात्रावशनस्य चतुर्विधाहारस्योज्झा वर्जनम् । सैवाणुव्रतम् । तस्याश्वाणुव्रतत्वं रात्रावेव भोजननिवृत्तेर्दिवसे यथाकालं तत्प्रवृत्तिसंभवात् । तदनं प्रधानं येषां, रक्षार्थत्वात् । तदुक्तम् तसिं चेव वयाणं रक्खत्थं रायभोयणणियत्ती। अट्ठ य पवयणमादाउ भावणाओ य सव्वाओ॥ रात्रिभोजने हि मुनेहि सादीनां प्राप्तिः । शङ्का चात्मविपत्तिश्च स्यात् ! तदप्युक्तम् तेसिं पंचण्हं पिय वयाणमावजणं च संकाओ। आदविवत्ती अह विजरादिभत्तप्पसंगलि ॥ रात्रौ हि भिक्षार्थं पर्यटन् प्राणिनो हिनस्ति दुरालोकत्वात् दायकागमनमार्ग तस्यात्मनश्वावस्थानदेशमुच्छिष्टस्य निपातदेशमाहारं च योग्यमयोग्यं वा निरूपयितुं न शक्नोति कडच्छुकादिकं वा शोधयितुमतिसूक्ष्मत्रसानां दिवापि दुष्परिहारत्वात् । पादविभागिकामेषणासमित्यालोचनां सम्यगपरीक्षितविषयां कुर्वन् कथमिव सत्यव्रती स्यात् । सुप्तेन स्वामिभूतेनादत्तमप्याहारं गृह्णतोऽस्यादत्तादानमपि स्यात् । विद्विष्टा गोत्रिणो वैरिणो वा विशङ्किता रात्रौ मार्गादौ ब्रह्मचर्य वास्य नाशयन्ति । दिवानीतं च संवृत्तौ निजभाजने धृतमाहारं रात्रौ भुञ्जानः सपरिग्रहश्व भवेत् । तथा मम हिंसादयः किं संवृत्ता नवेति शङ्का रात्रिभोजिनः स्यात् । स्थाणुसपैकण्टकादिभिरुपघाताश्च । मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्वगुणाधिक क्लिश्यमानाविनयेषु यथाक्रमं भावयतः सर्वाप्यपि व्रतानि परं दायमासादयन्तीति तद्भावनाचतुष्टये मुक्तिकामान् नियोक्तुमभिधत्तेमा भूत्कोपीह दुःखी भजतु जगदसद्भर्म शर्मेति मैत्री, ज्यायो हत्तेषु रज्यन्नयनमधिगुणेष्वेष्विवेति प्रमोदम् । दुःखाद्रक्षेयमाान् कथमिति करुणां ब्राहिम मामेहि शिक्षा, काऽद्रव्येष्वित्युपेक्षामपि परमपदाभ्युद्यता भावयन्तु ॥१५१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy