________________
३०२
अनगारधर्मामृते
अयोगचरमसमये एव चारित्रस्य संपूर्णीभावादू योगानामचारित्रस्य व्यापकत्वात् । तथा चोक्तम्
सीलेसिं संपत्तो णिरुद्धणिस्सेसआसवो जीवो। कम्मरयविप्पमुक्को गयजोगो केवली होइ॥ अपि चयस्य पुण्यं च पापं च निष्फलं गलति स्वयम् । स योगी तस्य निर्वाणं न तस्य पुनरात्रवः ॥ ये किम् ? ये शुद्धदृशः क्षायिकसम्यग्दृष्टयः सन्तः सकलीकुर्वन्ति सामायिकशिखरारोहणेन सूक्ष्मसाम्परायकाष्ठामधिष्ठाय यथाख्यातरूपतां नयन्ति । कानि ? एतानि पञ्च व्रतानि । कथंभूता भूत्वा ? प्राणीत्यादि। प्राणिनाणं मुखे आदौ यस्याः सा प्राणित्राणमुखा । सा चासौ प्रवृत्तिश्व प्राणित्राणमुखप्रवृत्तिः । अधस्तनभूमिकायां प्राणिरक्षणे सत्यभाषणे दत्तादाने ब्रह्मचरणे योग्यपरिग्रहस्वीकरणे च या प्रवृत्तिः तस्या उपरम उपरिमभूमिकायां व्यावर्तनम् । तस्यानुक्रान्त्याऽनुक्रमणेन गुणश्रेणिसंक्रमोपसर्पणेन पूर्णीभवत् संपूर्णतां गच्छत् साम्यं सर्वसावद्ययोगविरतिमात्रलक्षणं सामा. यिकचारित्रं येषां ते प्राणित्राणमुखप्रवृत्त्युपरमानुक्रान्तिपूर्णीभवत्साम्याः। किंविशिष्टानि व्रतानि ? महान्ति । कुतो हेतोः ? इति यतो भवन्त्येतानि व्रतानि । किंविशिष्टानि ? महाफलानि । महदनन्तज्ञानादिलक्षणं फलं येषाम् । यतश्चैतानि भवन्ति । किंविशिष्टानि ? महतां मान्यानि गणधरदेवादीनामनुष्ठेयतया सेव्यानि इन्द्रादीनां वा दृग्विशुद्विविवृद्धयङ्गतया पूज्यानि । यतश्चैतानि भवन्ति । किंविशिष्टानि ? विश्वग्विरत्यात्मानि स्थूलसूक्ष्मभेदसकलहिंसादिविरतिरूपाणि । अतो महान्ति । उक्तं च
आचरितानि महद्भिर्यञ्च महान्तं प्रसाधयन्त्यर्थम् । स्वयमपि महान्ति यस्मान्महाव्रतानीत्यतस्तानि ॥ अपि चमहत्त्वहेतोगुणिभिः श्रितानि महान्ति मत्त्वा त्रिदशैतानि । महासुखज्ञाननिबन्धनानि महाव्रतानीति सतां मतानि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org