SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। ...ANA ते विषयाश्चेन्द्रियार्थास्तेषु । मनोज्ञामनोज्ञयोः स्पर्शयोः रसयोर्गन्धयो रूपयोः शब्दयोश्च रागद्वेषनिषेधं कृत्वेत्यर्थः । तथा चोक्तम् निवृत्तिं भावयेद्यावन्निवयं तदभावतः। प्रवृत्तिन निवृत्तिश्च तदेव पदमव्ययम् ॥ रागद्वेषौ प्रवृत्तिः स्यानिवृत्तिस्तनिषेधनम् । तौ च बाह्यार्थसंबद्धौ तस्मात्तान सुपरित्यजेत् ॥ इति परिग्रहपरित्यागमहाव्रतम् । इदानीं स्वस्वभावनासंपादितस्थैर्याणि व्रतानि साधूनां समीहितं साधयन्तीत्युपदेशार्थमाह-- पञ्चभिः पञ्चभिः पञ्चाप्येतेऽहिंसादयो व्रताः। भावनाभिः स्थिरीभूताः सतां सन्तीष्टसिद्धिदाः ॥१४९॥ एते प्रागुक्ताः पञ्चापि अहिंसादयो हिंसानृतस्तेयाब्रह्मपरिग्रहविरतिरूपा व्रताः सन्ति भवन्ति । किंविशिष्टाः ? इष्टसिद्धिदा अभिमतार्थसाधकाः । केषाम् ? सतां साधूनाम् । किंविशिष्टाः सन्तः ? स्थिरीभूता निश्चलतां प्राप्ताः । काभिः ? भावनाभिः । कतिभिः कृतिभिः ? पञ्चभिः पञ्चभिः। ताश्च प्रतिव्रतं प्राग्दर्शिताः ।। उक्तलक्षणानां पञ्चानां ब्रतानां महत्वसमर्थनपुरःसरं रात्रिभोजनविरमणलक्षणं षष्ठमणुव्रतं रक्षणार्थमुपदिशन्नुत्तरोत्तराभ्याससौष्ठवेन संपूर्णीकरणे सति निर्वाणलक्षणं फलमालक्षयतिपञ्चैतानि महाफलानि महतां मान्यानि विष्वग्विर, त्यात्मानीति महान्ति नक्तमशनोज्झाणुव्रताग्राणि ये। प्राणित्राणमुखप्रवृत्त्युपरमानुक्रान्तिपूर्णीभव,त्साम्याः शुद्धदृशो व्रतानि सकलीकुर्वन्ति निर्वान्ति ते १५० ते मुमुक्षवो निर्वान्ति जीवन्मुक्तिमधिगम्य परममुक्तिमासादयन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy