________________
अनगारधर्मामृते
हे मनश्वित्त, योऽयं भाति प्रतिभासते । कोसौ ? अहंप्रत्ययोऽहंकारानुरक्तज्ञानम् । कथम् ? अधिमद् मय्यात्मन्यधिकृत्य । किंविशिष्टः ? अबाधः नास्ति बाधोऽन्यथाभावो यस्य विपरीतार्थोपस्थापकप्रमाणाभावाद् यत्र अहमित्यनुपचरितप्रत्ययः स आत्मेति वचनसद्भावाच्च । तमनु तेन सह बद्धनिाजसख्यं योजितनिश्छद्ममैत्रीकं मनश्चेञ्चरसि प्रवर्तसे त्वम् ।क? पथि मार्गे । कथं कृत्वा ? निरवबन्धमस्खलितम् । तर्हि हि स्फुटमीर्षे गच्छसि त्वम् । किं तत् ? तद्धाम तद् वाचामगोचरतया स्वैकसंवेद्यतया वा प्रसिद्धं धाम स्थानम् । नो चेदन्यथा चरसि चेत्त्वं तदाऽभ्येषि अभिमुखं गच्छसि त्वम् । काः ? भवदवविपदः संसारदावाग्निविपत्तीः। किंविशिष्ट सत् ? दिङ्मूढं दिशि गुरूपदेशे मूढं व्यामुग्धम् । अन्योपि यथोक्तनीत्या यः पथि न संचरति स दिक्षु व्यामुग्धः सन् दवाग्निविपत्तीरभिगच्छतीत्युक्तिलेशः।
एवमाकिंचन्यव्रतबद्धकक्षस्य भिक्षोः शिक्षामापाद्य पूर्व विभ्रमसंस्कारात् तत्र पुनः श्लथीभावावतारतिरस्काराय मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेषव. जनलक्षणपञ्चभावनाप्रयोगपुरःसरं प्रयत्नमावर्णयति
यश्चार्वचारुविषयेषु निषिद्ध्य राग,द्वेषौ निवृत्तिमधियन् मुहुरा निवात् । ईर्ते निवर्त्यविरहादनिवृत्तिवृत्ति,
तद्धाम नौमि तमसङ्गमसङ्गसिंहम् ॥ १४८ ॥ नौमि सौम्यहम् । कम् ? तमसङ्गसिंहं निर्ग्रन्थप्रधानम् । किंविशिष्टम् ? असङ्गं निरुपलेपं संततं वा नौमि । यः किम् ? य ईतॆ गच्छति । किं तत् ? तद्धाम । किंविशिष्टम् ? अनिवृत्तिवृत्ति निवृत्तिप्रवृत्तिरहितम् । कस्मात् ? निवर्त्य विरहाद् निवर्तनीयाभावात् । किं कुर्वन् ? अधियन् ध्यायन् । कथम् ? मुहुः पुनः पुनः । काम् ? निवृत्तिम् । कथम् ? आ। कस्मात् ? निवात्। निवर्तनीयं बन्धं बन्धनिबन्धनं च यावदस्ति तावन्निवृत्तिं भावयन्नित्यर्थः । किं कृत्त्वा? निषिद्ध्य । प्रतिषिद्धय । कौ ? रागद्वेषौ प्रीत्यप्रीती । केषु? चार्वचारुविषयेषु । चारवश्वाचारवश्व चार्वचारवः। ते च
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org