SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः । शुद्धस्वात्मोपलम्भोन्मुखस्य योगकाष्ठा सौष्ठवावाप्तिभवितव्यतानुभावभा वनामनुभावयति भावैर्वैभाविकैर्मे परिणतिमऽयतोऽनादि संतानवृत्त्या, कर्मण्यैरेकलोलीभवत उपगतैः पुद्गलैस्तत्त्वतः स्वम् । बुद्ध्वा श्रद्धाय साम्यं निरुपधि दधतो मुत्सुधान्धावगाधे, स्याच्चेल्लीलावगाहस्तदयमवशिखी किं ज्वलेद्दाहाशून्यः १४६ २९९ अयं स्वफलमुखेन प्रतीयमानोऽघ शिखी पापाग्निः किं ज्वलेत् दीप्येत । न ज्वलेन्निर्वात्येवेत्यर्थः । किंविशिष्टो यतः ? दाह्यशून्यो दाह्येन मोहाद्याविष्टचिद्विवर्तेन तृणकाष्ठादिना च रहितः । कथम् ? तत्त्वतः । चेत्किम् ? चेदू यदि स्यात् । कोसौ ? लीलावगाहो लीलया अनायासेन लवनम् । कस्मिन् ? मुत्सुधाब्धौ आनन्दामृतसमुद्रे । किंविशिष्टे ? अगाधे गम्भीरे । कस्य ? मे मम आरब्धयोगस्य । किं कुर्वतः ? दधतो धारयतः । किं तत् ? साम्यं रागद्वेषयोरुपरमम् । किंविशिष्टम् ? निरुपधि निर्दम्भम् । किं कृत्वा ? बुद्ध्वा निश्चित्य श्रद्धाय चाभिनिविश्य । कम् ? स्वमात्मानम् । केन ? तत्त्वतो याथात्म्येन ? किं कुर्वतः पूर्वम् ? अयतो गच्छतः । काम् ? परिणतिं परिणामम् । कैः ? भावैः । किंविशिष्टैः ? वैभाविकै रोपाधिकैः । मोहरागद्वेषैरित्यर्थः । तथा एकलोलीभवतः कथंचित्तादात्म्य मापद्यमानस्य । कैः सह ? पुद्गलैः रूपि - द्रव्यैः । किंविशिष्टैः ? कर्मण्यैर्ज्ञानावरणादिकर्मयोग्यैः । पुनः किंचिशिष्टैः ? उपगतैः सदासन्निहितैः । कया ? अनादिसंतानवृत्त्या आसंसारसंतत्यनुपरमेण । समाधिमधिरुरुक्षोर्मुमुक्षोरन्तरात्मानुशिष्टिमुपदेष्टुमाचष्टे - अयमधिमदबाधो भात्यहं प्रत्ययो य, - स्तमनु निरवबन्धं बद्धनिर्व्याजसख्यम् । पथि चरसि मनश्चेत्तर्हि तद्धाम हीर्पे, भवदवविपदो दिङ्मूढमभ्येषि नो चेत् ॥ १४७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy