________________
अनगारधर्मामृते
क्षणलक्षितत्वेनावश्यं भिन्नावित्यर्थः । किं कुर्वतोः ? कलयतोरपि धारयतोरपि । काम् ? एकतां तादात्म्यम् । किंवत् ? नीरक्षीरवत्, जलदुग्धयोरिकलोलीभावं बिभ्रतोरपि लक्षणभेदाद्वेद एव चेत्तत् ततः को नवति । कोसौ ? अभिमोऽभेदभ्रान्तिः । केषु ? अलंभिनेषु अत्यन्तपृथग्भूतेषु दारगृहादिषु । दारगृहादिरर्थोऽहमेवाहं दारगृहादिरेवेत्यभेदप्रत्यय इत्यर्थः ।
२९८
इत्येवं भावनया समरसीभावसमुज्जृम्भितसहजज्योतिषो मोहविजयातिशयं प्रकाशयति---
स्वार्थेभ्यो विरमय्य सुष्ठु करणग्रामं परेभ्यः पराक्, कृत्त्वान्तःकरणं निरुध्य च चिदानन्दात्मनि स्वात्मनि । यस्तत्रैव निलीय नाभिसरति द्वैतान्धकारं पुनस्तस्योदाममsसीम धाम कतमच्छिन्दत्तमः श्राम्यति ॥ १४५ ॥
कतमत् । किम् ? प्रकृष्टं तमश्चिरप्ररूढमज्ञानं छिन्दद् ध्वंसयद् धाम तेजः श्राम्यति क्षीणशक्तिकं भवति । न किमपि । सर्वमनाद्यविद्याविजृम्भितं निरस्यतीत्यर्थः । किंविशिष्टम् ? उद्दामं निष्प्रतिबन्धम् । पुनः किंविशिष्टम् ? असीम निरवधि । कस्य ? तस्य निष्पन्नयोगस्य योगिनः । यः किम् ? यो नाभिसरति नाभिमुखं गच्छति । किं तत् ? द्वैतान्धकारम् अयमहमयं पर इति विकल्पं ध्यानध्येयादिविकल्पं वा तम इव शुद्धात्मोपलम्भप्रतिबन्धकत्वात् । किं कृत्वा ? निलीय निभृतं । क ? तत्रैव चिदानन्दात्मन्येवात्मनि । किं कृत्वा ? निरुद्ध्य एकामं कृत्वा । किं तत् ? अन्तःकरणं मनः । क ? स्वात्मनि निजचि - द्रूपे । किंविशिष्टे ? चिदानन्दात्मनि ज्ञानानन्दमये । किं कृत्वा ? कृत्त्वा विधाय अन्तःकरणम् । किं विशिष्टम् ? पराक् । पराञ्चतीति पराकू । पराङ्मुखम् | केभ्यः ? परेभ्यः शरीरादिभ्यः । किं कृत्वा ? विरमय्य व्यावर्त्य । कम् ? करणग्राममिन्द्रियाणां समूहं । केभ्यः ? स्वार्थेभ्यो निजनिजविषयेभ्यः । कथम् ? सुष्ठु सुतराम् । च समुच्चये ।
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org