________________
चतुर्थोऽध्यायः।
२९७
चनामपकारनिर्मिताम् । किंविशिष्टाम् ? प्राची प्राक् ग्रहस्थावस्थायां भ. वाम् । पूर्व कृतामित्यर्थः । इवेत्युत्प्रेक्षायाम् । तल्लक्षणं यथा
कल्पना काचिदौचित्याद्यत्रार्थस्य सतोन्यथा।
द्योत्यते वादिभिः शब्दैरुत्प्रेक्षा सा स्मृता यथा ॥ __ यद्येवं भिक्षामाश्रौषीस्त्वं तत्ततः किं न विनयसे शमयसि त्वं । "कर्तृस्थे कर्मण्यमूर्ती' इत्यात्मनेपदम् । कौ ? रागापरागग्रही रागद्वेषौ भूताविव । किंविशिष्टौ ? तच्छिद्रचरौ इदमनेन सुन्दरमसुन्दरं वा भोजनं मे दत्तमिति भिक्षाद्वारायातौ रागद्वेषौ । ग्रहपक्षे तु-च्छिद्रं प्रमादा. चरणम् ।
देहात्मभेदभावनानिरुद्ध विकल्पजालस्य साधोः शुद्धस्वात्मोपलम्भमभिनन्दतिनीरक्षीरवदेकतां कलयतोरप्यङ्गपुंसोरचि,चिद्भावाद्यदि भेद एव तदलंभिन्नेषु कोमिनमः। इत्यागृह्य परादपोह्य सकलोन्मीलद्विकल्पच्छिदा,स्वच्छनास्वनितेन कोपि सुकृती स्वात्मानमास्तिनुते ॥१४४॥
कोपि प्रविरलः सुकृती जन्मान्तराभ्यस्तयोगार्जितपुण्योदयवर्ती आ. स्तिजूते आस्कन्दति । अभेदेनानुभवतीत्यर्थः । कम् ? स्वात्मानम् । केन ? आस्वनितेन मनसा । किं विशिष्टेन ? सकलाः सर्वे उन्मीलन्त उन्मिपन्तो ये विकल्पाः अन्तर्जल्पसंपृक्तप्रत्यवमर्शाः । तेषां छिदा छेदः । तया स्वच्छेन सुप्रसन्नेन सकलोन्मीलद्विकल्पच्छिदास्वच्छेन । किं कृत्वा ? अपोह्य व्यावर्त्य । कम् ? प्रकृतत्वात् स्वात्मानमेव । कस्मात् ? परात् देहादेः । किं कृत्वा ? आगृह्य देहादेः स्वात्मानं पृथक्त्वेन दृढं प्रतिपद्य । कथम् ? इति । किमिति ? यदि वर्तते । कोसौ ? भेद् एव पृथक्त्वमेव । कयोः ? अङ्गपुंसोः शरीरात्मनोः । कस्मात् ? अचिच्चिद्भावात् । शरीरस्याचेतनत्वादात्मनश्च चेतनत्वादित्यर्थः । जलानलवदेहात्मनोभिन्नल.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org