________________
२९६
अनगारधर्मामृते
तत् ? नैर्ग्रन्थ्यव्रतं नैपॅन्थ्यमेव व्रतं नैर्मेन्थ्यव्रतम् । सकलपरिग्रहपरित्यागलक्षणां विरतिमित्यर्थः । - महासत्त्वस्य धर्मवीररसिकतया तत्सहायकाय पालनाय यथोक्तां भिक्षा प्रतिज्ञाय प्रमाद्यतः पर्यनुयोगार्थमाह
प्राची माष्टुमिवापराधरचनां दृष्ट्वा स्वकार्ये वपुः, सधीचीनमदोऽनुरोद्धुमधुना भिक्षां जिनोपक्रमम् । आश्रौषीर्यदि धर्मवीररसिकः साधो नियोगाद्गुरो,स्तत्तच्छिद्रचरौ न कि विनयसे रागापरागग्रहौ॥ १४३ ॥ हे साधो सिद्धिसाधनोद्यत यद्याश्रौषीः प्रतिज्ञातवांस्त्वम् । काम् ? भिक्षाम् । किंविशिष्टाम् ? जिनोपक्रम तीर्थकरेण प्रथममारब्धाम् । जिनस्योपक्रमो जिनोपक्रमम् । “ उपज्ञोपक्रमं तदाधुक्तौ " इति नपुंसकत्वम्। कस्मात् नियोगादाज्ञानुरोधात् । कस्य ? गुरोर्दीक्षकाचार्यस्य । किंविशिष्टः सन् ? धर्मवीररसिकः । विभावादिभिर्व्यक्त उत्साहाख्यः स्थायीभावो वीररसः । वीरश्वासौ रसश्चेति विग्रहः । धर्मविषयो वीररसो धर्मवीररसः । सोस्य प्रशस्तोस्तीति धर्मवीररसिकः । द्रव्यतोऽप्रमत्तसंयत इत्यर्थः। तल्लक्षणं यथा
णहासेसपमाओ क्यगुणसीलोलिमंडिओ णाणी। अणुवसमगो अखवगो झाणणिलीणो हु अपमत्तो ॥ उक्तं च
उत्साहात्मा वीरः स त्रेधा धर्मयुद्धदानेषु । विषयेषु भवति तस्मिन्नक्षोभो नायकः ख्यातः॥ कदा ? अधुना निर्वेदारोहसमये । किं कर्तुम् ? अनुरोर्बु स्वकार्य सहकारि यथा स्यात्तथा कर्तुम् । किं तत् ? अदः एतत् स्वकार्यसहकारित्वेन निश्चितं वपुः । किं कृत्वा ? दृष्ट्वा निश्चित्त्य । किं तत् ? वपुः शरीरम् । किंविशिष्टम् ? सध्रीचीनं सहायम् । क ? स्वकार्ये रत्नत्रयलक्षणे आत्मनः साध्ये । किं कर्तुम् ? माष्टुं निराकर्तुम् । काम् ? अपराधर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org