________________
चतुर्थोऽध्यायः।
२९५
शया च देहलालनपरस्य तव सम्यक्तपःसंवरनिर्जरालक्षणस्त्रफलविक्लवं भविष्यतीत्यर्थः । __ प्रतिपन्ननैःसङ्ग यव्रतस्यापि देहस्नेहान्माहात्म्यक्षतिः स्यादिति शिक्षयतिनैन्थ्यवतमास्थितोपि वपुषि स्निह्यन्नसह्यव्यथा,भीरु वितवित्तलालसतया पञ्चत्वचेक्रीयितम् । याज्जादैन्यमुपेत्य विश्वमहितां न्यकृत्त्य देवीं त्रपां, निर्मानो धनिनिष्ण्यसंघटनयाऽस्पृश्यां विधत्ते गिरम् ॥१४२॥
विधत्ते करोति । कोसौ ? निर्मानो महत्त्वान्निष्कान्तो भिक्षुः । काम् ? गिरं वाचम् । किंविशिष्टाम् ? अस्पृश्यामनादेयाम् । कया? धनिनिपण्यसंघटनया । धनी आढ्यो निष्पयोऽन्त्यज इव दयादाक्षिण्यरहितत्वात् । धनिनिष्ण्यस्य संघटना संपर्कस्तया । किविशिष्टां गिरम् ? विश्वमहितां जगति पूजिताम् । किंकृत्त्वा ? न्यकृत्य अभिभूय । काम् ? त्रपां लजाम् । किंविशिष्टाम् ? देवी महाप्रभावत्वात् । तदुक्तम्
लजां गुणौधजननी जननीमिवान्या,मत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि संत्यजन्ति,
सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ किं कृत्वा ? उपेत्त्य आलम्ब्य । किं तत् ? याच्यादैन्यं प्रार्थनाकृतकार्पण्यम् । किं विशिष्टम् ? पञ्चत्वचेक्रीयितं लक्षणया मरणतुल्यम् । चेक्रीयितं हि व्याकरणप्रसिद्धो द्विर्वचनहेतुः प्रत्ययः । द्वितीयं मरणमित्यर्थः । कया ? जीवितवित्तलालसतया जीवितव्यदविणयोरत्यन्तलाम्पट्येन । किंविशिष्टः सन् एवंभूतो भवति ? असाव्यथाभीरुः सोढुम. शक्येभ्यः परीषहदुःखेभ्यो भीलुकः । एवंभूतोपि कुतो भवति ? स्त्रिान् स्नेहं कुर्वन् । क ? वपुषि शरीरविषये । एवं तर्हि ग्रन्थग्रहाविष्टः सन् भविष्यतीत्यत्राह-आस्थितोपि गुरुदेवसधर्मसाक्षिक प्रतिपन्नोपि । किं
१ निष्ण्यः अन्त्यजस्य नाम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org