________________
अनगारधर्मामृते
रक्षितव्यं रक्षणीयं मुमुक्षुणा । किं तत् ? शरीरम् । किंविशिष्टम् ? धर्मसंयुक्तं धर्मसाधक जीवाध्युषितम् । केन ? प्रयत्नेन परमादरेण । इति एवंरूपा शिक्षा भवति । किं ? त्वक्, तुषः शरीररक्षानिबन्धस्येष्टसि - अनुपयोगित्वात् । कस्यास्त्वक् ? आप्तवाचः प्रवचनस्य । तण्डुलः पुनभवत्या वाचः । किम् ? देहस्त्याज्य एवेति शिक्षा | देहममत्वच्छेदिन एव परमार्थनिर्मन्थत्वात् । तदुक्तम्
२९४
देहो बाहिरगंथो अण्णो अक्खाण विसय अहिलासो । तेसिं चाए खवओ परमट्ठे हवइ णिग्गंथो ॥ कायक्लेशलालन योर्गुणदोषौ भिक्षोरुपदिशन्नाह
योगाय कायमनुपालयतोपि युक्त्या, यो ममत्वहतये तव सोपि शक्त्या । भिक्षोन्यथाक्षसुखजीवितरन्धलाभात्, तृष्णासरिद्विधुरयिष्यति सत्तपोद्रिम् ॥ १४१ ॥
हे भिक्षो चारित्रगात्र, क्लेश्यो दम्यः । कोसौ ? सोपि कायः । अपिशब्दात्कषायश्च | योगार्थोपि काय इति वा । कस्य ? तव । त्वयेत्यर्थः 1 कया ? युक्त्या आगमोक्तविधानेन । शक्त्या च बलवीर्यानिगूहनेन | कस्यै ? ममत्वहतये ममकारनिराकरणाय । किं कुर्वतोपि तव ? अनुपा लयतोपि संयमानुगतं रक्षतः । न परमुपेक्ष्यमाणस्येत्यपिशब्दार्थः । कम् ! कार्य शरीरम् । कस्मै ? योगाय रत्नत्रयप्रणिधानाय । अन्यथा तथा न केश्यश्चेत् तदा विधुरविष्यति जर्जरीकरिष्यति । कासौ ? तृष्णासरित् । तृष्णा काङ्क्षा सरिन्नदीव, सत्तपसोऽदेरिव दुर्भेदस्य भेदनिमित्तत्वात् कम् ? सत्तपोद्रिम् । सत्तपोद्रिः पर्वत इव दुरारोहत्यात् । कस्मात् अक्षसुखजीवितरन्ध्रलाभात् । चक्षुरादीन्द्रियैरनुभूयमानादिष्टाङ्गना द्यर्थाज्जायमानं सौख्यमक्षसुखम् । जीवितं प्राणाः । अक्षसुखं च जीवित चाक्षसुखजीविते रन्ध्रे विवरे इव, तृष्णासरितः प्रवेशहेतुत्वात् अक्ष सुखजीवितरन्ध्रयोर्लाभः प्राप्तिस्तस्मात् । विषयसुखाशया जीविता
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org