________________
चतुर्थोऽध्यायः।
२९३
वैकुण्ठो विष्णुः । सोपि समुद्रमथनाच्छ्रियं लब्ध्वा स्वयं भुजानः । यदि दानवासनविधौ, दानं वान्ति गच्छन्तीति दानवारत्यागशीलास्तेषामसनविधौ तिरस्कारकरणत्यागेन तान् जेतुं यदि वै स्फुटं कुण्ठः स्यात् तथा दानवानामसुराणां वासनविधौ क्षेपणकरणे यदि कुण्ठः स्यात् तदा सद्विधौ शण्ठः स्यात् इत्यादृत्या व्याख्येयम्। गृहं परित्यज्य तपस्यतो निर्विनां मोक्षपथप्रवृत्तिं कथयति
प्रजाग्रद्वैराग्यः समयबलवल्गत्स्वसमयः, सहिष्णुः सर्वोर्मीनपि सदसदर्थस्पृशि दृशि । गृहं पापप्रायक्रियमिति तदुत्सृज्य मुदित,
स्तपस्सनिःशल्यः शिवपथमजस्रं विहरति ॥ १३९ ॥ विहरति आराधयति अजस्त्रमश्रांतं साधुः । कम् । शिवपथं रत्नत्रयम् । किं कुर्वन् ? तपस्यन् बाह्यमाभ्यन्तरं च तपः कुर्वन् । किंविशिष्टः सन् ? निःशल्यो मिथ्यात्वनिदानमायालक्षणशल्यत्रयनिष्क्रान्तः । पुनः किंविशिष्टः ? मुदितः प्रीतः। किं कृत्वा ? उत्सृज्य त्यक्त्वा । किं तत् ? तद्गृहम् । कथं कृत्वा ? इति । किमिति ? भवति । किं तत् ? गृहम् । किंविशिष्टम् ? पापप्रायक्रियम । पापं प्रायेण यासु ताः पापप्रायाः क्रिया: कर्माणि यस्मिन् तदेवम् । कस्यां सत्याम् ? दृशि अन्तर्दृष्टौ । किंविशिष्टायाम् ? सदसदर्थस्पृश्यपि प्रशस्ताप्रशस्तवस्तुपरामर्शिन्यामपि किं पुनरितरस्याम् । कथंभूतो भूत्वा ? प्रेत्यादि । प्रकर्षेण लाभाद्यनार्थत्वलक्षणेन जाग्रत्स्फुरद्वैराग्यं वैतृष्ण्यं यस्य स प्रजानद्वैराग्यः । तथा समयबलेन काललब्ध्या श्रुतज्ञानसामर्थेन च वल्गन् विजृम्भमाणः स्वसमयः स्वस्वरूपोपलम्भो यस्य स समयबलवल्गत्स्वसमयः । तथा सहिष्णुः साधुत्वेन सहमानः । कान् ? सर्वोर्मीन् निशेषपरीषहान् । बहिःसङ्गेषु देहस्य हेयतमत्वप्रतिपादनार्थमाह
शरीरं धर्मसंयुक्तं रक्षितव्यं प्रयत्नतः । इत्याप्तवाचस्त्वग्देहस्त्याज्य एवेति तण्डुलः ॥ १४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org