________________
२९२
अनगारधर्मामृते
अरातीन् मिथ्यात्वादिशत्रून् । किंविशिष्टान् ? दुःखानुवन्धैकपरान् केवलदुःखानुवर्तनप्रधानान् । कथम् ? समूलम् । संवरसहभाविनी निर्जरां कृत्वेत्यर्थः । दृश्यते च लोकेपि कालमलभमानोऽपकतरि साधु वर्तेतेति मनसिकृत्त्य धीरः स्थिरप्रकृति यको नित्योपतापकांचौरवरटादीन् निःसंतानं नाशयित्वा प्रकृष्टं प्रतप्कामोपि अपराध्यन्तमपि प्रतिनायकं निहन्तुं समये व्यवस्यन् । इति श्लेषालंकारो विदग्धैः प्रतिपाद्यः ।
श्रियमुपायं सत्पात्रेषु विनियुञानस्य सद्गृहिणस्तत्परित्यागेन मोक्षपथैकप्रस्थायित्वमभिष्टौतिपुण्याब्धेर्मथनात्कथंकथमपि प्राप्य श्रियं निर्विशन् , वै कुण्ठो यदि दानवासनविधौ शण्ठोसि तत्सद्विधौ । इत्यर्थैरुपगृह्णता शिवपथे पान्थान्यथास्वं स्फुर,त्तादृग्वीर्यबलेन येन स परं गम्येत नम्येत सः ॥ १३८ ॥
स यथोक्तसदाचरणो नम्येत नमस्क्रियेत श्रेयोर्थिभिः । येन किम् ? येन गम्येत आश्रीयेत । कोसौ ? स शिवपथः। कथम् ? परमुच्चैः । किंविशिष्टेन सता ? स्फुरत्ताहरवीर्यबलेन । वीर्य स्वाभाविकी शक्तिः । बलमाहारादिजन्म । स्फुरती कार्ये लसती तादृशी उच्चैः शिवपथाश्रयणयोग्ये वीर्यबले यस्य स तथोक्तः । किं कुर्वता ? उपगृह्णता उपकु. र्वता । कान् ? शिवपथे पान्थान् मोक्षमार्ग नित्यं प्रस्थायिनः । कैः । अथैई व्यैः । कथम् ? यथास्वं यथायथम् । कथं कृत्वा ? इति । किमिति यदि भवेयमहम् । किंविशिष्टः ? वै स्फुटं कुण्ठो संदः । क्व ? दानवास नविधौ । दानेन वासनविधिरात्मनः संस्कारविधानं तस्मिन् । किं कुर्वन् । निर्विशन् । अनुभवन् । काम् ? श्रियं लक्ष्मीम् । किं कृत्वा ? प्राप्य कस्मात् ? मथनात् । कस्य ? पुण्याब्धेः । समुद्रस्य विलोडनादिन पुराकृतसुकृतस्योदयप्रापणात् । कथम् ? कथंकथमपि महता क टेन । तत्ततोऽस्मि भवाम्यहम् । किंविशिष्टः ? शण्ठो यत्नपरिभ्रष्टः क? सद्विधौ साध्वाचरणे । ततो मया के शपरम्परया वित्तमुपायं स्वय मुपभुञानेन सत्पात्रेषु विनियोक्तव्यमिति निश्चित्त्येत्यर्थः । उक्तिलेशपक्षे त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org