________________
चतुर्थोऽध्यायः।
२९१
चिद्रूपोपलम्भो नित्यानन्दसुधामयस्वसमयः । तस्य स्पर्शः किंचिदामर्शः। तमपिच्छिनत्ति व्यपनयतीति तच्छित् अभ्यासः प्रत्यासत्तिः सामीप्यं यस्याः सा तथोक्ता । कथम् ? आसंसारं संसारालाभृति । तथा चोक्तम्कादाचित्को बन्धः क्रोधादेः कर्मणः सदा सङ्गात् । नातः क्वापि कदाचित् परिग्रहग्रहवतां सिद्धिः ॥ तत्वविद्भिरप्यकाले मोहो दुर्जय इति चिन्तयति
महतामप्यहो मोहग्रहः कोप्यनवग्रहः ।
ग्राहयत्यस्खमस्वांश्च योऽहंममधिया हठात् ॥ १३६ ॥ अहो आश्चर्य वर्तते । कोसौ ? मोहग्रहः । मोहश्चारित्रमोहनीयं कर्म ग्रह इव विविधविकारकारित्वात् । किंविशिष्टः ? कोप्य निर्वचनीयोऽनवग्रहो दुर्निवारश्चिरावेशो वा । केषाम् ? महतामपि गृहस्थावस्थतीर्थकरादीनामपि । यः किम् ? यो ग्राहयति निश्चाययति । किं तत् ? अ. स्वमस्वांश्च । कया ? अहंममधिया अनात्मभूतं देहादिकमात्म बुद्ध्या, अनात्मीयभूतांश्च दारगृहादीन् ममबुधेति संबन्धः। कस्मात् ? हठात् । ते हि तत्वं जानन्तोपि मोहवशादन्यथा व्यवहरन्ति ।
अपकुर्वतोपि चारित्रमोहस्योच्छेदाय काललब्धावेव विदुषा यतितव्यमित्यनुशास्ति
दुःखानुबन्धैकपरानरातीन् , समूलमुन्मूल्य परं प्रतप्स्यन् । को वा विना कालमरेः प्रहन्तुं,
धीरो व्यवस्यत्यपराध्यतोपि ॥ १३७ ॥ वेत्यनुमतौ। को धीरो विद्वान् व्यवस्थति उत्सहते । किं कर्तुम् ? प्रहन्तुं निर्नाशयितुम् । कस्य ? अरेश्चारित्रमोहस्य । कथम् ? विना । कम् ? कालं समयम् । किं कुर्वतोपि ? अपराध्यतोपि अपकुर्वतोपि । किं करिष्यन् ? प्रतप्स्यन् प्रतप्तुमिच्छन् । कथम् ? परमुत्कृष्टम् । अपृष्ट्यप्रभावो भवितुमिच्छन्नित्यर्थः । किं कृत्वा ? उन्मूल्य उच्छिद्य । कान् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org