________________
२९०
अनगारधर्मामृते
सजन् विविधमासक्तो भवन् । केषु? हिंसादिषु प्राणातिपातादिकर्मसु किंविशिष्टेषु ? दुःखोद्गारभरेषु दुःखोद्गाराणां पीडोद्भवानां भरोतिशयो येषु तान्येवम् । व ? रक्षेत्यादि । रक्षा ब्राणम् । अर्जना अलब्धलाभः । संस्कारो मण्डनम् । ते आदयो येषां संमार्जनसेचनलेपनादीनां तानि रक्षार्जनासंस्कारादीनि । तानि च तानि दुरीहितानि च दुश्चेष्टितानि । तेषां व्यतिकरः प्रघट्टकस्तस्मिन् । केन ? ममेदमिति संकल्पेन । क ? गेहाधुपधौ गृहक्षेत्रादिपरिग्रहे । यदंहः कष्टं जीर्यति जरां याति एकदे. शेन क्षीयते । क ? जन्मदहने संसाराग्नौ । किविशिष्टे ? प्रखरेपि सुतीक्ष्णे किं पुनः खरे मन्दे वा । कस्मात् ? चिरात् दीर्घकालात् । घोरनरकादिदुःखानुभवेनैव विच्छिद्यते इत्यर्थः । अनाद्यविद्यानिबन्धनं चेतनाचेतनपदार्थेषु रागद्वेषप्रबन्धं विदधानस्य कर्मबन्धक्रियासमभिहारमनभिनन्दन्नाहआसंसारमविद्यया चलसुखाभासानुबद्धाशया, नित्यानन्दसुधामयखसमयस्पर्शच्छिदभ्याशया। इष्टानिष्टविकल्पजालजटिलेष्वर्थेषु विस्फारितः, क्रामन् रत्यरती मुहुर्मुहुरहो बाबध्यते कर्मभिः ॥ १३५॥
अहो कष्टं, बाबध्यते भृशं पुनः पुनर्वा बध्यते जीवः । कैः ? कर्मभिर्ज्ञानावरणादिभिः । किं कुर्वन् ? क्रामन् आश्रयन् । के ? रत्यरती रागद्वेषौ । कथम् ? मुहुर्मुहुर्वारं वारम् । किंविशिष्टः सन् ? विस्फारितः प्रयत्नावेशमापादितः। केषु ? अर्थेषु चेतनाचेतनपदार्थेषु । किंविशिष्टेषु ? इष्टेत्यादि । अयं मे इष्टोभिमतोऽयं चानिष्टोऽनभिमत इत्येवं विकल्पा मानसाध्यवसाया इष्टानिष्टविकल्पाः। तेषां जालं संघातः । तेन जटिला व्यतिकीर्णा इष्टानिष्टविकल्पजालजटिलास्तेषु । कया ? अविद्यया विपर्ययज्ञानेन । किंविशिष्टया ? चलेत्यादि । असुखं सुखवदाभासते सुखाभासम् । चलं क्षणिकम् । तच्च तत्सुखाभासम् च । तत्रानुबद्धा अनुसंहिता प्रबन्धेन योजिता आशा तृष्णा यया सा तथोक्ता । पुनः किं विशिष्टया ? नित्येत्यादि । नित्यानन्दसुधामयः सदा प्रमोदामृतप्रचुरः स्वसमयः शुद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org