SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। २८९ NA द्भवन्ति । के ? असवः प्राणाः । इत्येवं मनुमिवात्मानं मन्यमानाः । तथा वृषस्यन्ति कामयन्ते देहात्ममतयः । काः ? स्त्रीनारीः । किंविशिष्टाः सन्तः ? अशनोद्भिन्नमदना वल्भनोद्गतकन्दर्पाः । कथं कृत्वा ? अदयं निष्ठुरम् । समर्थनमाह-वा अथवा ज्वलयति धनस्वीकारे नारीप्रवीचारे च संरम्भयति । कोसौ ? धनस्त्रीरागो धनेषु स्त्रीषु चाभिलाषः । कान् ? कुजान् वृक्षान् । किंविशिष्टान् ? अमनसोपि अमनस्कानपि । किं पुनः समनस्कान् मनुष्यादीन् । यन्नीतिः "अर्थेषूपभोगरहितास्तरवोपि साभिलाषाः किं पुनर्मनुष्याः" इति । दृश्यन्ते च मूलोपान्ते निखातं हिरण्यं जटाभिर्वेष्टयन्तः प्ररोहैश्वोप. सर्पन्तो वृक्षाः। सुप्रसिद्ध एव चाशोकादीनां कामिनीविलासाभिलाषः । तथा च पठन्तिसन्नपुरालक्तकपादताडितो द्रुमोपि यासां विकसत्यचेतनः। तदङ्गसंस्पर्शरसद्रवीकृतो विलीयते यन्न नरस्तदद्भुतम्॥ अपि चयासां सीमन्तिनीनां कुरबकनिलकाशोकमाकन्दवृक्षाः, प्राप्योच्चैर्विक्रियन्ते ललितभुजलतालिङ्गनादीन्विलासान् । तासां पूर्णेन्दुगौरं मुखकमलमलं वीक्ष्य लीलालसाढ्यं को योगी यस्तदानीं कलयति कुशलो मानसं निर्विकारम् ॥ गृहादिमूर्छायाततद्रक्षणाद्युपचितस्य पातकस्यातिदुर्जरत्वं व्याहरतितद्नेहायुपधौ ममेदमिति संकल्पेन रक्षार्जना,संस्कारादिदुरीहितव्यतिकरे हिंसादिषु व्यासजन् । दुःखोद्गारभरेषु रागविधुरप्रज्ञः किमप्याहर,त्यंहो यत्प्रखरेपि जन्मदहने कष्टं चिराजीयेति ॥ १३४ ॥ __ गृही रागविधुरप्रज्ञो गृहादितृष्णाविक्लवमतिः सन् तत्किमप्यनिर्वचनीयमंहः पापमाहरति स्वसाकरोति । बनातीत्यर्थः । किं कुर्वन् ? व्या Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy