________________
२८८
अनगारधर्मामृते
तल्लाभे गुणपुण्डरीकमिहिकावस्कन्दलोभोद्भव,-. प्रागल्भीपरमाणुतोलितजगत्युत्तिष्ठते कः सुधीः ॥१३२ ॥
दुःखायते दुःखमनुभवति नरः । कथम् ? अलं पर्याप्तम् । किंवत् ? मृत्युवद् मरणे यथा । किंविशिष्टः सन् ? त्याजितो मोचितः । किं तत् ? यत्पृक्थं धनम् । कैः ? तदर्थभिः पृक्तमर्थयमानैः । क इव ? पक्षीव । यथा पक्षी शकुनिः खे आकाशे तदर्थिभिः पलार्थिभिः पक्ष्यन्तरैः पलं मांसं त्याजितो मृत्युवदलं दुःखायते। किं कुर्वन् ? रक्षन् त्रायमाणः पृक्तं पलमिव । कमात् । विधुरादऽपायात्। विधुरेण वा कृच्छ्रेण रक्षन् । किं कृत्वा ? उ. पायं स्वसात्कृत्त्य । कथम् ? कथमपि । महता कष्टेन । तल्लाभे तस्य पृक्त. स्य प्राप्तौ कः सुधीर्विचारचतुरचेता उत्तिष्ठते उद्यमं करोति । न कश्चिदित्यर्थः । किंविशिष्टे ? गुणेत्यादि । गुणाः सम्यग्दर्शनादयः पुण्डरीकाणि श्वेतपद्मानीवाल्हादकत्वात् । गुणपुण्डरीकेषु मिहिकावस्कन्दस्तुषारप्रपातो यो लोभोगवश्चतुर्थकषायोदयः । तस्य प्रागल्भी प्रौढिर्निरङ्कुशप्रवृत्तिः । तया परमाणुतोलितं परमाणुना समानीकृतं जगत् स्थावरजङ्गमात्मा लोको येन स तथोक्तः।
बहिरात्मनां धनार्जनभोजनोन्मादप्रवृत्तं निःशङ्कपापकरणं स्वच्छन्दमैथुनाचरणं च दूषयन्नाह
धनादन्नं तस्मादसव इति देहात्ममतयो, मर्नु मन्या लब्धं धनमघमशङ्का विदधते । वृषस्यन्ति स्त्रीरप्यदयमशनोद्भिन्नमदना, धनस्त्रीरागो वा ज्वलयति कुजानप्यमनसः ॥ १३३ ॥ विदधते । कुर्वन्ति । के ? देहात्ममतयः। देहे आत्मेति मतिर्येषां ते । किं तत् ? अघं पापम् । किंविशिष्टाः सन्तः ? अशङ्का निर्भयाः । किं कर्तुम् ? लब्धुं प्राप्तम् । किं तत् ? धनं द्रव्यम् । किंविशिष्टा यतः ? मनुम्मन्या लोकव्यवहारोपदेष्टारमात्मानं मन्यमानाः। कथम् ? इति । भवति । किं तत् ? अन्नं भोजनम् । कस्मात् ? धनात् । तस्माच्चान्ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org