________________
चतुर्थोऽध्यायः।
२८७ दैन्यभाषगनिघृणत्वकृपणत्वानवस्थितचित्तत्वदोषावहत्वेन धनानि जु. गुप्ततेश्रीमैरेयजुषां पुरश्वटुपटुर्देहीति ही भाषते, देहीत्युक्तिहतेषु मुश्चति हहा नास्तीतिवाग्घ्रादिनीम् । तीर्थेपि व्ययमात्मनो वधमभिप्रेतीतिकर्तव्यता,चिन्तां चान्वयते यदभ्यमितधीस्तेभ्यो धनेभ्यो नमः॥१३॥ __ भवति । किं तत् ? नमो नमस्कारः । केभ्यः ? तेभ्यो धनेभ्यः । तानि धनानि धिगित्यर्थः । यदभ्यमितधीयरातङ्कितबुद्धिः पुरुष इदमिदं करोति । तथा हि-यदभ्यमितधीर्भाषते बदति । किं तत् ? देहीति । किंत्रिशिष्टः सन् ? चटुपटुश्चाटुकारचतुरः । क ? पुरोऽग्रे । केषाम् ? श्रीमैरेयजुषाम् । श्रीलक्ष्मीमैरेयं मद्यमिव मदमोहादिजनकत्वात् । श्रीमैरेयं जुषन्ते सेवन्ते श्रीमैरेयजुषः । कथम् । ही कष्टम् । तथा यदभ्यमितधी. मुञ्चति विसृजति । काम् ? नास्तीति वाग्घ्रादिनीम् । नास्तीति वाग् हादिनीं वज्रमिव याचकमनःप्रतिघातहेतुत्वात् । केषु ? देहीत्युक्तिहतेषु देहीतिवचनेन नाशितेषु । यल्लोकः
गर्भङ्गः स्वरो दीनो गात्रस्वेदो महद्भयम्।
मरणे यानि चिन्हानि तानि चिन्हानि याचने ॥ हहेति कष्टम् । तथा यदभ्यमितधीरभिप्रेति । अभिमन्यते । कम् ? व्ययं द्रव्यविनियोगम् । किंविशिष्टम् ! वधम् । कस्य ? आत्मनः स्वस्य । क? तीर्थपि धर्मसमवाविनः कार्यसमवायिनश्च पुरुषास्तीर्थम् । तत्रापि, किं पुनरन्यत्र । तथा यदभ्यमितधीरन्वयतेऽविच्छिन्नं याति । काम् ? इतिकर्तव्यताचिन्ताम्। इदमेवं मया कर्तव्यमिदं चैवमिति वितर्कणाम् ।
धनस्यार्जनरक्षणादिना तीवदुःखकरत्वात्तत्प्राप्तिं प्रत्युद्यम कृतिनां निराकुरुतेयत्पृक्तं कथमप्युपाय विधुराद्रक्षनरस्त्याजितः, खे पक्षीव पलं तदर्थभिरलं दुःखायते मृत्युवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org