________________
२८६
अनगारधर्मामृते
नयति तं नटं शिष्टग्रामण्योप्युपहसन्तीति तं धनर्द्धिगर्वितं घुमांसं नोज्झति न मुञ्चति । कासौ ? उत्तराशा। किंविशिष्टा? मानसोर्मिजटिला नाना. विकल्पजालानुबन्धिनी । परमप्रत्याशा तस्य भवतीत्यर्थः । तथा तं धनर्द्धितिरस्कृतधनाधिपतिं पुरुषमुत्तराशा उदीची दिग् नोज्झति । किंविशिष्टा ? मानसोर्मिजटिला दिव्यसरस्तरङ्गगवाक्षिता। कैलासेनापि सहोत्तरां दिशं स स्वीकर्तुमिच्छतीत्यर्थः।
धनगृध्नोर्महापापप्रवृत्ति प्रवक्तिजन्तून् हन्त्याह मृषा चरति चुरां ग्राम्यधर्ममाद्रियते । खादत्यखाद्यमपि धिग् धनं धनायन् पिबत्यपेयमपि ॥१२९॥
धनं ग्रामसुवर्णादिकं धनायन्नऽभिकाङ्क्षन् पुरुष इदमिदं करोति । तथाहि । धनाभिकाङ्क्षी जन्तून्प्राणिनो हन्ति हिनस्ति, तथा मृषा असत्यमाह ब्रवीति, तथा चुरां चोरिकामाचरति करोति, तथा ग्राम्यधर्म मैथुनमाद्रियतेऽभ्युपगच्छति; तथाऽखाद्यमपि काकमांसादिकं खादति भक्षति, तथाऽपेयमपि सुरादिकं वर्णकुलाद्यपेक्षया पाने निषिद्धमपि पिबति आस्वादयति । अत एव धिगित्यनेन क्षिपति धिग् धनगृभुमित्यर्थः। भूमिलुब्धस्यापायावद्ये दृष्टान्तेन स्पष्टयतितत्ताग्रसाम्राज्यश्रियं भजन्नपि महीलवं लिप्सुः । भरतोऽवरजेन जितो दुरभिनिविष्टः सतामिष्टः ॥ १३० ॥ इष्टः । कोसौ ? भरतः प्रथमचक्री। केषाम् ? सताम् । किंविशिष्टः । दुरभिनिविष्टः । नीतिपथमनागतस्य पराभिभवपरिणामेन कार्यस्यारम्भो दुरभिनिवेशः । तमापनः । साधुभिरिष्यते इत्यर्थः । किंविशिष्टः सन् ? जितः परिभूतः । केन ? अवरजेन बाहुबलिकुमारेण । किं चिकीर्षुः ? लिप्सुर्लब्धुमिच्छुः । कम् ? महीलवं सुरम्याख्य देशमात्रम् । किं कुर्वन्नपि? भजनपि सेवमानोपि । काम् ? तत्तासाम्राज्यश्रियं तां प्रसिद्धां तादृशीं लोकोत्तरां साम्राज्यश्रियं सकलचक्रवर्तित्वविभूतिम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org