________________
चतुर्थोऽध्यायः।
२८५
कल्याणमैहिकसुखसंपादकत्वात् । केषाम् ? क्षेत्रभृताम् । क्षेत्रं शरीरं बिभ्रतीति क्षेत्रभृतस्तेपाम् । देहिनामित्यर्थः । चेद् यदि न भवति । किं तत् ? आक्षेत्रश्यं नैरात्म्यं बौद्धकल्पितम् । किंविशिष्टम् ? मृषा असत्यम् । जीवाभावो यदि सत्यमित्यर्थः । क्षेत्रं शरीरं जानाति चेतयते इति क्षेत्रज्ञ आत्मा । न क्षेत्रज्ञोऽक्षेत्रज्ञः । तस्य भाव आक्षेत्रश्यम् । “नजः शुचीश्वरक्षेत्रज्ञकुशलचपलनिपुणानाम्" इत्यनेनोभयपदवृद्धिः । अथवा ईषत् क्षेत्रज्ञ अक्षेत्रज्ञो गर्भादिमरणान्तस्थायी जीवश्चार्वाककल्पितः। शेषं पूर्ववत् । भवति। किं तत् ? क्षेत्रम् । किंविशिष्टम् ? पन्था मार्गः । कस्याः ? दुर्गतेनरकादिगतेः । कथम् ? अन्यथा आक्षेत्रश्यमसत्यमस्ति चेत् । जीवो यदि शश्वदस्तीति भावः । कस्मात् ? बह्वारम्भानुबन्धनाद् बहूनामारम्भाणां षड्जीवनिकायघातानां कर्षणसेचननिर्दानादिपापकर्मणामनुबन्धनात् पुनः पुनः प्रवर्तनात् । कुप्यादिपरिग्रहस्यौद्धत्याशानुबन्धनिबंधनत्वमभिधत्ते
यः कुप्यधान्यशयनासनयानभाण्ड,काण्डैकडम्बरितताण्डवकमेकाण्डः । वैतण्डिको भवति पुण्यजनेश्वरेपि,
तं मानसोर्मिजटिलोज्झति नोत्तराशा ॥ १२८॥ कुप्यं हेमरूप्यवर्ज धातुरथ वस्त्रादि द्रव्यं । यानं शिबिकाविमानादि । भाण्ड हिमुमञ्जिष्टादि । काण्डं समूहः। ताण्डवकर्मकाण्डं वैचित्र्यमत्र नेयम् । बैतण्डिक उपहासपरः। पुण्यजनेश्वरे कुबेरे शिष्टप्रधाने च मानसोर्मयश्चि. तविकल्पा दिव्यसरस्तरङ्गाश्च । उत्तराशा उत्कृष्टाकाङ्क्षा उदीची दिक् च ।
यः पुरुषोभवति। किंविशिष्टः ? वैतण्डिकः। क ? पुण्यजनेश्वरेपि। किंविशिष्टः सन् ? कुप्येत्यादि । कुप्यं च धान्यं च शयनं चासनं च यानं च भाण्डं च कुप्यधान्यशयनासनयानभाण्डानि । तेषां काण्डानि संघाताः। तैरेकमुत्कृष्टं कृत्वा डम्बरितं विस्फारितं ताण्डवकर्मकाण्डं येन स तथोक्तः । कुप्यादिपरिग्रहचर्बहुधा नटित इत्यर्थः। अयमभिप्रायः-कुप्यादिद्रव्यसमृद्ध्या स्वस्मात्कुबेरमपि हीनं मन्यते । यश्व शश्वदुद्धतनृत्यवैचित्रीमभि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org