SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २८४ अनगारधर्मामृते इत्येवं लक्षणाः पञ्च शूनाः प्राणिवधस्थानानि यस्मिन् । समर्थनमाहहि यस्माद्भवति । किंतत् ? पूर्व पञ्चशूनं गृहम् । किमर्थम् ? लब्धलोपार्थ लब्धस्य प्रक्रमात्संवेगस्य नाशनिमित्तम् । तथा भवति । किं तत् ? परं शून्यं वनम् । कस्यै ? अलब्धप्राप्तये। अलब्धं शुद्धात्मतत्त्वं कदाचिदप्यप्राप्तपूर्वकत्वात् । तस्य प्राह्यर्थम् ।। गृहकार्यव्यासक्तानां दुःखसातत्यमनुशोचति विवेकशक्तिवैकल्यागृहद्वन्द्वनिषद्वरे । मनः सीदत्यहो लोकः शोकहर्षभ्रमाकुलः ॥ १२६ ॥ अहो कष्टं, सीदति खिद्यते । कोसौ ? लोकः पृथग्जनः । किंविशिष्टः ? मनो बुडितः । क ? गृहद्वन्द्वनिषद्वरे गृहव्यासङ्गकर्दमे । कस्मात् ? विवेकशक्तिवैकल्यात् । विवेको हिताहितविवेचन विश्लेषणं च । तत्सामर्थ्यप्रतिबन्धात् । यथा पङ्के मनस्ततः पृथक्कर्तुमात्मानमशक्नुवन् दुःखायते तथा गृहव्यासङ्गे पतितो हिताहितं विवेक्तुमशक्नुवन् क्लिश्यते इत्यर्थः । पुनः किंविशिष्टः ? शोकहर्षभ्रमाकुलः । शोकश्व हर्षश्च शोकहाँ । तयोर्धमः पर्यायेण वृत्तिः । शोके वर्तित्वा हर्षे वर्तनं हर्षे च वर्तित्वा शोके वर्तनमित्यर्थः । तेनाकुलोऽनवस्थितचित्तः । तदुक्तम् रतेररतिमायातः पुना रतिमुपागतः। तृतीयं पदमप्राप्य बालिशो बत सीदति ॥ भ्रमो भ्रान्तिर्वा । तत्राप्युक्तम् वासनामात्रमेवैतत् सुखं दुःखं च देहिनाम् । तथा ह्युद्वेजयन्त्येते भोगा रोगा इवापदि ॥ क्षेत्रपरिग्रहदोषमाह क्षेत्र क्षेत्रभृतां क्षेममाक्षेत्रश्यं मृषा न चेत् । अन्यथा दुर्गतेः पन्था बहारम्भानुबन्धनात् ॥१२७॥ भवति । किंतत् ? क्षेत्र सस्याद्युत्पत्तिस्थानम् । किं विशिष्टम् ? क्षेमं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy