SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ अपि च चतुर्थोऽध्यायः । सप्ताहादोषधं केचिदाहुरन्ये दशाहतः । के चिल्लवनभुक्तस्य योज्यमामोल्बणेन तु ॥ एतेन द्विपदसङ्गाच्चतुष्पदसङ्गस्य बहुतरापायत्वं समर्थितम् । पादद्वयोपेतो हि यथपकरोति तर्हि पादचतुष्टयोपेतस्तद्विगुणमपकुर्यादित्युक्तिलेशः । २८३ अचेतनसङ्गाच्चेतनसङ्गस्य बाधाकरतरत्वमाचष्टे - यौनमौखा दिसंबन्धद्वारेणाविश्य मानसम् । या परिग्रहचित्त्वान् मध्नाति न तथेतरः ॥ १२४ ॥ यथा मध्नाति व्यथयति । कोसौ ? चित्त्वान् चेतनावान् परिग्रहः । किं तत् ? मानसं मनः पुंसाम् । किं कृत्वा ? आविश्य गाढमाक्रस्य । केन ? यौनेत्यादि । योनेरागतो यौनः सोदर्यादिसंबन्धः । मुखादागतो मौखः शिष्यादि संबन्धः । आदिशब्देन जन्यजनकत्व पोष्य पोषकत्वभोग्यभोक्तृभावादिसंबन्धा यथास्वमवसेयाः । यौनश्च मौखश्च यौनमौखौ । तावादी येषां ते यौनमौखादयः । ते च ते संबन्धाश्च । त एव द्वारं प्रवेशहेतुत्वात् । न मनाति । कोसौ ? इतरोऽचेतनः परिग्रहः । किं तत् ? मानसम् । कथम् ? तथा चेतनादचेतनोऽल्पं दुःखयतीत्यर्थः । तत एवास्य पश्चान्निर्देशः । I އށނ अथ दशभिः पचैरचेतनपरिग्रहं दूषयितुकामः प्राक्तावत्तदधिष्ठानत्वाडहस्य दोषानुद्भावयति पञ्चशूनागृहाच्छ्रन्यं वरं संवेगिनां वनम् । पूर्व हि लब्धलोपार्थ मलब्धप्राप्तये परम् ।। १२५ ।। "कण्डनी पेषणी चुल्ली उदकुम्भः प्रमार्जनी । पञ्च शूना गृहस्थस्य तेन मोक्षं न गच्छति ॥" Jain Education International 1 वरं श्रेष्ठं भवति । किं तत् ? वनम् । किंविशिष्टम् ? शून्यं विविक्तम् । केषाम् ? संवेगिनां संसारभीरूणाम् । कस्मात् ? गृहात् । किंविशि ष्टात् ? पश्चशूनात् । For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy