________________
२८२
अनगारधर्मामृते—
कस्यापि । केव ? कर्णात्ता कर्णगृहीता ऋक्षीव भल्लूकी यथा । तस्मात्त
I
दपि न संग्राह्यमिति स्थितम् । दासः क्रयक्रीतः कर्मकरः ।
शिष्यशासनेपि क्वचित्क्वचित् क्रोधोद्भवं भावयति —
यः शिष्यते हितं शश्वदन्तेवासी सुपुत्रवत् । सोप्यन्तेवासिनं कोपं छोपयत्यन्तरान्तरा ॥ १२२ ॥
योन्तेवासी शिष्यः शिष्यते शिक्ष्यते गुरुभिः । किं तत् ? हितं श्रेयस्करं वस्तु | किंवत् ? सुपुत्रवत् सत्पुत्रेण तुल्यम् । कथम् ? शश्वद् अहोरात्रम् । सोपि छोपयति स्पर्शयति । कम् ? कोपं क्रोधम् । किंविशिष्टम् ? अन्तेवासिनं चण्डालं साधुजनानामस्पृश्यत्वात् । क ? अन्तरान्तरा मध्ये मध्ये विनयाग्रहणकाल इत्यर्थः । एतेन सोपि मुमुक्षूणामसंग्राह्य इति पर्यवस्यति ।
चतुष्पदपरिग्रहं प्रतिक्षिपति
द्विपदैरप्यसत्सङ्गश्चेत् किं तर्हि चतुष्पदैः । तिक्तमध्यामसन्नार्नायुष्यं किं पुनर्घृतम् ॥ १२३ ॥
चेद्यदि द्विपदैरपि मनुष्यादिभिः सह संगः संसर्गः स्यात् । कीदृशः ? असन् अप्रशस्तोऽपायभूयस्वात् । तर्हि किं स्यात् । कोसौ ? सङ्गः । कैः सह ? चतुष्पदैर्गजतुरगादिभिः । सुतरामप्रशस्तो भवेदित्यर्थः । समर्थनमाह - न स्यात् । किं तत् ? तिक्तमपि भूनिम्बनिम्बादिप्राय मौषधम् । कीदृशं ? आयुष्यं जीवनार्थम् । कस्य ? आमसन्नाग्नेः । आमेन दुष्टापक्करसेन सन्नोऽभिभूतोनिः कोष्टो वह्निर्यस्य । स एवम् । किं पुनर्घृतमायुष्यं स्यात् । सुतरां न भवेदित्यर्थः । यस्य हि तिक्तद्रव्यं स्वभावादामस्य पाचकं स्वास्थ्याय न स्यात्तस्य कथं स्निग्धशीतत्वेनामवर्धनं सर्पिः पथ्यमिति भावः । तथा चोक्तम्:
तीव्रातिरपि नाजीर्णी पिबेच्छूलनमौषधम् । आमसन्नोनलो नालं पक्तुं दोषौषधासनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org