________________
चतुर्थोऽध्यायः ।
२८१
न इत्याह- तावत् तावन्तं कालम् । यावत्किम् ? यावन्न शक्यः । कोसौ ? सङ्गः । किंविशिष्टः । सकलोपि । किं कर्तुम् ? असितुं त्यक्तुम् ।
उक्तं च
सङ्गः सर्वात्मना त्याज्यो मुनिभिर्मोक्तुमिच्छुभिः । स चेत् त्यक्तुं न शक्येत कार्यस्तर्द्धात्मदर्शिभिः ॥
अपि च---
सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥ अत्यन्तभक्तिमतोपि भृत्यस्याकृत्यप्रधानत्वादनुपादेयतां लक्षयतियोतिभक्ततयात्मेति कार्यिभिः कल्प्यतेङ्गवत् । सोप्यकृत्येग्रणीर्भृत्यः स्याद्रामस्याञ्जनेयवत् ॥ १२० ॥
यः कल्प्यतेऽध्यवसीयते । कथम् ? आत्मेति अयमहमिति । कैः ? कार्यिभिः स्वार्थपरैः । कया ? अतिभक्ततया अत्यन्तानुरक्तभावेन । किंवत् ? अङ्गवद् यथा शरीरम् । ( कार्यिभिरिदमहमिति कल्प्यते । कया ? अतिभक्ततया अत्यन्तश्लिष्टभावेन । ) सोपि भृत्यः किं पुनरन्यः स्यात् । किंविशिष्टः ? अग्रणीः प्रधानः । क्व ? अकृत्ये हिंसादौ । किंवत् ? रामस्याञ्जनेयवद् दाशरथेर्हेनुमानिव । एवं मुमुक्षुभिर्गुणवद्भृत्योपि न संग्राह्य इत्यवतिष्ठते । भृतिः कर्ममूल्यम् । भृतौ साधुर्भृश्यः । अञ्जनाया अपत्यमाञ्जनेयः ।
दासीदासस्य स्वीकारो मनस्तापाय स्यादित्याह -
अतिसंस्तव धृष्टत्वादनिष्ठे जाघटीति यत् ।
तदासीदास मृक्षीव कर्णात्ताः कस्य शान्तये ॥ १२१ ॥
यदू दासीदासं जाघटीति भृशं पुनः पुनर्वा चेष्टते । क्क ? अनिष्टे भर्तुरनभिप्रेते कर्मणि । कस्मात् ? अतिसंस्तवधृष्टत्वाद् अत्यन्तपरिचयेन प्रगल्भत्वात् । तत्कस्य शान्तये अनिष्टनिवारणार्थं स्यादू, न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org