________________
२८०
अनगारधर्मामृते
। ये अधर्मकर्मणि पापक्रियायामुपकारिणो बलाधायकास्ते जनानां लोकानां सुहृदो मित्राणि प्रायो बाहुल्येन मता इष्टाः । अत्र समर्थनमाह-खलु यस्मादरंस्त प्रीतिमकार्षीत् । कोसौ ? धर्मपुत्रो युधिष्ठिरः कस्मिन् ? कृष्णे विष्णौ । किं विशिष्टे ? स्वेत्यादि । अन्तश्च बहिश्वान्तर्बहिः । तत्र संतती अन्तर्बहिःसंतती । स्वस्य धर्मपुत्रात्मनोन्तर्बहिःसंतती स्वान्तर्बहिःसंतती । तयोः कृष्णवर्मा स्वान्तर्बहिःसंततिकृष्णवर्मा तस्मिन् । तत्र स्वान्तःसंततौ निजात्मनि कृष्णस्य पापस्य वर्म मार्गः प्राप्युपाय इत्यर्थः । कृष्णशब्देन च सांख्याः पापमाहुः । तथा हि तत्सूत्र
"प्रधानपरिणामः शुक्लं कृष्णं च कर्म" इति । तथा स्वबहिःसंततौ निजवंशे कृष्णवर्मा वह्निः कौरवसंहारकार. कत्वात् । यः किल धर्मस्य सर्वपुरुषार्थमूलकारणस्यात्मजः स्यात् स कथं तत्तादृशं कृष्णं मित्रीकुर्यात् । अतोऽश्रद्धेयमेतत् प्राकृतजनस्य मैत्रकमित्यु. क्तिलेशेनात्र तात्पर्यार्थोनुरञ्जनीयः।
ऐहिकार्थसहकारिणां मोहावहत्वात्याज्यत्वमुपदर्शयन्नामुत्रिकाथसुहृदा. मधस्तनभूमिकायामेवानुसतव्यतामभिधत्तेनिश्छद्म मेद्यति विपद्यपि संपदीव, यः सोपि मित्रमिह मोहयतीति हेयः । श्रेयः परत्र तु विबोधयतीति तावच्छक्यो न यावदसितुं सकलोपि सङ्गः ॥ ११९ ॥ निश्छद्म निर्व्याजं कृत्वा यो मेद्यति नियति । कस्याम् ? विपद्यपि विनिपातोपनिपातेपि । केव? संपदीव संपत्तौ सत्यां यथा । हेयस्त्याज्यः। कोसौ ? सोपि किं पुनस्तद्विपरीतः । मुमुक्षुभिरिति शेषः । किमाख्यो भवन् ? मित्रं सुहृत् । क्व ? इह अस्मिन् जन्मनि । कुतो हेतोः ? मोहयतीति मोहं नयति यतः । तुर्विशेषे । स पुनर्यथोक्तमित्रलक्षणः श्रेय आश्रयणीयो मुमुक्षुभिः । कस्मिन्विषये ? परत्र । कुतो हेतोः ? विबोधयतीति विशिष्टमात्मदेहान्तरज्ञानलक्षणं बोधं नयति यतः। किं सर्वदा?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org