________________
चतुर्थोऽध्यायः।
२७९
पितृमातृज्ञातीनामपकारकत्वं वक्रमणित्या निन्दन् दुष्कृतनिर्जरणहेतुस्वेनोपकारकत्वादरातीन मिनिन्दति-- बीजं दुःखैकबीजे वपुषि भवति यस्तर्षसंतानतन्त्र,स्तस्यैवाधानरक्षाद्युपधिषु यतते तन्वती या च मायाम् । मद्रं ताभ्यां पितृभ्यां भवतु ममतया मद्यवद् घूर्णययः, स्वान्तं स्वेभ्यस्तु बद्धोञ्जलिरयमरयः पापदारा वरं मे ११७
यः पिता तर्षसंतानतन्त्रस्तृष्णासातत्यक्शः सन् भवति । किम् ? बीजं प्ररोहणकारणम् । क ? वपुषि शरीरे जन्ये पुंसाम् । किंविशिष्टे ? दुःखैकबीजे दुःखस्य प्रधानहेतौ, “ सर्वापदां पदमिदं जननं जनानाम्" इति वचनात् । या च माता यतते प्रयत्नं करोति । केषु ? तस्यैव वपुष एव आधानरक्षाद्युपधिषु गर्भाधानपालनवर्धनाद्युपकरणेषु । किं कुर्वती! तन्वती विस्तारयन्ती । काम् ? मायां संवृति मिथ्यामोहजालम् । ताभ्यां तागुपकारकाभ्यां पितृभ्यां पितृमातृभ्यां भवतु अस्तु । किं तत् ? भद्रम्। आशिषि चतुर्थी । पुनर्मातापितरौ मम मा संपद्येतामित्यर्थः । एवं तर्हि यथोक्तदोषाभावाज्ज्ञातयः संपद्यन्तामित्यत्राह-तुर्विशेषे । अयं प्रत्यक्षोऽ. अलिबद्धो मया । केभ्यः ? स्वेभ्यो बन्धुभ्यः । किं कुर्वन्द्यः ? चूर्णययो हिताहितविचारविलोपेन विक्लवं कुर्वन्यः । किं तत् ? स्वातं मनः । कया? ममतया इमे मदीया इति ममकारेण । किंवत् ? मद्यवद् मदिरातुल्यया। मातापितृभ्यां मनोमोहकत्वेनात्यन्तदुष्टान् बान्धवान् धिगित्यर्थः । स्वेभ्य इत्यन्न तादर्थ्यचतुर्थी । किं पुनरेवं भवतो भद्रं प्रतिभातमित्यत्राह-वरं भद्रं भवन्तु । के ? अरयः शत्रवः । कस्य ? मे मम । किवि. शिष्टा यतः ? पापदारा अपकारकरणद्वारेण पातकान्यामोचयन्त इत्यर्थः । मुमुक्षोरात्मतत्वभावनोपदेशोयम् ।।
पृथग्जनानां मित्रत्वमधर्मपरत्वादपवदतिअधर्मकर्मण्युपकारिणो ये प्रायो जनानां सुहृदो मतास्ते । स्वान्तर्बहिःसंततिकृष्णवमन्यरंस्त कृष्णे खलु धर्मपुत्रः ११८
१ आत्मानुशासनवचनमिदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org